Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 358
________________ अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् ३२३ ३२३ (मूलम्) अन्य इति चेत्, न, आत्मवादापत्तेः, तत्तथाऽध्यवसायनिमित्ताभावाच । तथाविधशब्दात् तथाविधविकल्पजन्मैवाध्यवसिततद्भावतेति चेत्, अभ्युपगतं तर्हि शब्दस्यार्थवाचकत्वम् । तथाहि-इदमेवास्य तद्वाचकत्वं यत् तथा तदाकारविकल्पजनकत्वम् । तच्चेदिष्यत एव तथाविधात् ततस्तथाविधविकल्पोत्पत्त्यभ्युपगमेनेति । एवं च तदेव अस्य नियाजमस्तु, किमनेनाकाशकुसुमोद्गमसमानेन दृश्यविकल्प्याथैकीकरणव्याजेन ? ॥ 'ततश्च दृश्यविकल्प्यावावेकीकृत्य तबलात् प्रवर्तते, न तु ० शब्दाद् वस्त्वेव प्रतिपद्य तस्य ततोऽनवगतेः' इति शब्दगडमात्रमेव, वस्तुन एव शब्देनावगते, प्रतिबन्धभावात् । वाच्य (स्वो० व्या) स्वायोगात् । अन्य इति चेत्-विकल्पादन्यो विकल्प्यमेव दृश्यमित्यध्यवस्यति, एतदाशङ्कयाह--न, आत्मवादापत्तेः स एव विकल्पादन्यो बोध १५ आत्मेत्यापद्यते । दूषणान्तरमाह-तत्तथाऽध्यवसायनिमित्ताभावाच्च तस्यविकल्प्यस्य दृश्याध्यवसायनिमित्ताभावाच । तथाविधेत्यादि । तथाविधशब्दात्विशिष्टविकल्पनिवन्धनात् । तथाविधविकल्पजन्मैव-विशिष्टविकल्पोत्पाद एव अध्यवसिततद्भवता । इति चेत्, एतदाशझ्याह-अभ्युपगतं तर्हि शब्दस्य अर्थवाचकत्वम् । एतदेवाभिधातुमाह तथाहीत्यादिना । तथाही-२० त्युपप्रदर्शने । इदमेवास्य-शब्दस्य तद्वाचकत्वम्-अर्थवाचकत्वं यत् तथातन्निमित्तशब्दारूषितार्थप्रवृत्त्याद्यङ्गत्वेन तदाकारविकल्पजनकत्वम्-अर्थाकारविकल्पजनकत्वम् । तच्चेदित्यादि । तच्चेत्-अर्थाकारविकल्पजनकत्वं यद् इष्यत एव भवता तथाविधात्-विशिष्टात् ततः-शब्दात् तथाविधविकल्पोत्पत्यभ्युपगमेन-तन्निमित्तशब्दारूषितार्थप्रवृत्त्याद्यङ्गभूतविशिष्टविकल्पोत्पत्त्यम्युपगमेन २५ इति । एवं च कृत्वा तदेव-अर्थवाचकत्वमेव अस्य-शब्दस्योक्तनीत्या निर्व्याजम्-अपेतमायास्थानमस्तु-भवतु, किमनेनाकाशकुसुमोद्गमसमानेन ? निष्फलेनेत्यर्थः । दृश्य-विकल्प्याथैकीकरणव्याजेन-मायास्थानेन ॥ 'ततश्च दृश्यविकल्प्यावावेकीकृत्य तबलात् प्रवर्तते, न तु . शब्दाद् वस्त्वेव प्रतिपद्य तस्य ततोऽनवगतेः' इति शब्दगड-३० मात्रमेव-पूर्वपक्षोदितं वचः । कुत इत्येतदेव द्रढयन्नाह-वस्तुन एव१-२ द्रष्टव्यं ३१८तम पृष्ठम् ।

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453