Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 389
________________ ३५४ अनेकान्तजयपताकाख्यं प्रकरणम् [ चतुर्थः (मूलम्) प्रतिभासी धर्मी अनीलव्यावृत्तरूप एव प्रतिभासते, अनुत्पलव्यवच्छेदस्तु न नीलशब्देनोपात्तो न प्रतिक्षिप्तः, उत्पलशब्दप्रयोगादपि ५ अनुत्पलव्यावृत्तरूप एवं प्रतिभाति, अनीलव्यवच्छेदस्तूत्पलशब्देन नोपात्तो न त्यक्तः, नीलमुत्पलमिति शब्दद्वयंयोगे तूभयसमारोपव्यावृत्तकर्मिप्रतिभासिनी विकल्पबुद्धिरुत्पद्यते, ततो नानाफलः शब्द एकाधारो भवतीति भवेद् बुद्ध्यनुरोधेन सामानाधिकरण्यमिति । ननु बुद्धिप्रतिभाससन्दर्शितो धर्मी वस्तुत एकोऽनेक० धर्मा, विकल्पनिर्मितस्य धर्मधर्मिभावस्यालीकत्वात्, यतश्च भेदान्तराप्रतिक्षेपेणोत्पलशब्दो वर्तते, ततोऽप्रतिक्षिप्तभेदान्तरापेक्षित्वाद् बुद्धर्भवति विशेषणविशेष्यभावः, उत्पलं किं नीलमिति, एतदप्यसत्, विकल्पबुद्धिप्रतिभासस्यालम्बनाभावेन परमार्थतोऽ (स्वो० व्या०) १५ नीलशब्दप्रयोगाद् बुद्धिप्रतिभासी धर्मी अनीलव्यावृत्तरूप एव प्रतिभासते । अनुत्पलव्यवच्छेदस्तु नीलशब्देन नोपात्तो न प्रतिक्षिप्तः, तथाप्रतीतेः । एवमुत्पलशब्दप्रयोगादप्यनुत्पलव्यावृत्तरूप एव प्रतिभाति धर्मी विकल्पबुद्धौ, अनीलव्यवच्छेदस्तूत्पलशब्देन नोपात्तो न त्यक्तः, तथाप्रतीतेः, नीलमुत्पलमिति-एवं शब्दद्वयप्रयोगे पुनरुभय२० समारोपव्यावृत्तकर्मिप्रतिभासिनी विकल्पबुद्धिरुत्पद्यते । ततः एवं नानाफलः शब्दो नीलादिरूप एकाधारो भवतीति कृत्वा भवेद् बुद्ध्यनुरोधेन उक्तप्रतिभासयोगात् सामानाधिकरण्यमिति । न चेहाप्यपरविकल्पसम्भवो दोष इत्याह-ननु वुद्धिप्रतिभाससन्दर्शितो धर्मी वस्तुतःपरमार्थेन एकोऽनेकधर्मा । कुत इत्याह-विकल्पनिर्मितस्य धर्मधर्मिभावस्य २५ अलीकत्वात् । यतश्चेत्यादि । यतश्च भेदान्तराप्रतिक्षेपेण-अनीलव्यवच्छेदाप्रतिक्षेपेण उत्पलशब्दो वर्तते, ततोऽप्रतिक्षिप्तभेदान्तरापेक्षित्वात् कारणाद् बुद्धर्भवति विशेषणविशेष्यभावः । कथमित्याह-उत्पलं किं नीलमिति व्यवच्छेद्यं विशेष्यं व्यवच्छेदकं विशेषणमिति कृत्वा । एवं पूर्वपक्षमाशङ्कयाह-एतदप्यसत्-अशोभनम् । कुत इत्याह-विकल्प३० बुद्धिप्रतिभासस्थालम्बनाभावेन हेतुना परमार्थतोऽसत्त्वात्, अनै १ 'योगे उभय०' इति ग-पाठः । २ 'नुरोधित्वेन सामाना०' इति ग-पाठः। ३ 'न तु' इति क-पाठः। ४ 'धर्मा' इति ङ-पाठः। ५ 'व्यवच्छेदानुप्रति०' इति हु-पाठः।


Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453