Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 393
________________ अनेकान्तजयपताकाख्यं प्रकरणम् ( मूलम् ) प्रतीतेः, सन्नीलमुत्पलमित्यादिसंवेदनात् । न च यदेव सत्त्वं तदेव नीलत्वादि, तद्गतावपि क्वचित् तदनवगतेः विप्रकृष्टादिभिस्तथा" दर्शनात् । न चैकखभावादेव तत एष बुद्धिभेदः, अतिप्रसङ्गात् कासाञ्चिदहेतुकत्वापत्तेः । न च निरालम्बना एवैता इति, तद्भावभावित्वोपपत्तेः, अन्यथा तदयोगात् । न चाविकल्पिकैका साध्वी, एतास्त्वसाध्य इति, विहितोत्तरत्वात्, तत एव तत्प्रसूतेः अनन्तरक्षण सुखादिसंवेदनादिजनकत्वाद् वा । न च तद् येनैव खभावेन १० अनन्तरक्षणं जनयति तेनैव सुखादि, तदभेदापत्तेः सर्वथा हेस्वभेदात् । न चैका जनकत्वतः सामग्रीजनकत्वेन तद्भेदत एव तद्भेदः, ( खो० व्या० ) स्वभावतया प्रतीतेः । प्रतीतिश्च सनीलमुत्पलमित्यादिसंवेदनात् । न च यदेव सवं तदेव नीलत्वादि । कुत इत्याह- तद्गतावपि सत्त्वगतावपि १५ क्वचित्-न सर्वत्र । किमित्याह - तदनवगतेः - नीलत्वाद्यनवगतेः । एतदेवाहविप्रकृष्टादिभिः प्रमातृभिरिति गम्यते । तथादर्शनात् सत्त्वगतावपि नीलत्वाद्यनवगतिदर्शनात् । 'आदि' शब्दान्मन्दलोचनपरिग्रहः । न चैकस्वभावादेव ततः- नीलोत्पलादेरेष बुद्धिभेदः सत्त्वनीलत्वादिलक्षणः । कुत इत्याहअतिप्रसङ्गात् - बुद्ध्यन्तरस्यापि तत एव भावप्रसङ्गात् । तथा कासाञ्चिद२० हेतुकत्वापत्तेः बुद्धीनाम् न च निरालम्बना एवैताः - सत्त्वादिबुद्धय इति । कुत इत्याह-तद्भावभावित्वोपपत्तेः - अधिकृतार्थ भावभावित्वोपपत्तेः; अन्यथा तदभावे तदयोगात् सत्त्वादिबुद्ध्ययोगात् । न चाविकल्पिकैका साध्वी वर्तते, एतास्तु सत्त्वादिबुद्धयः असाध्य इति । कुत इत्याह-विहितोत्तरत्वात् अधः, तथा तत एव - अधिकृतवस्तुनो यद्वा विकल्पिकातो बुद्धेः तत्२५ प्रसृतेः । हेत्वन्तरमाह- अनन्तरक्षणसुखादिसंवेदना दिजनकत्वाच एकानेकस्वभावत्वे भावानामविरोध इति । अनन्तरक्षणश्च सुखादिसंवेदनादि च एतजनकत्वाद् वस्तुनः । न च तद् येनैव खभावेन हेतुना अनन्तरक्षणं जनयति वस्तु तेनैव सुखादि । कुत इत्याह- तदभेदापत्तेः - अनन्तरक्षण सुखायभेदापत्तेः । आपत्तिश्च सर्वथा हेत्वभेदात् । न चैका जनकत्वतः कार३० णात् सामग्रीजनकत्वेन हेतुना तद्भेदत एव- सामग्रीभेदत एव तद्भेद: १ 'जनकत्वात् । न च' इति ग-पाठः । ३५८ [ चतुर्थः

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453