Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 378
________________ अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ३४३ (मूलम्) कचिदसम्भवात् , गम्भीरशास्त्रश्रवणादौ तथोपलब्धेः, अन्यथा तदनवगमाभावात् , अभ्युपगमे च प्रतीतिविरोधः, कचित् सम्भवे अपि तदवगमासम्भवाच, परचेतसोऽप्रत्यक्षत्वात् तदाकारोऽतदा-५ कार इति सन्देहात् । वात्मनि ततस्तदाकारविकल्पोत्पत्त्या तत्तजननखभावत्वावगतेनै सन्देह इति चेत्, न, कचिदसम्भवादित्युक्तम् । न च यादृशाद् यः समुत्पन्नः 'स तादृशस्यैव हेतुरित्यसन्देहे निमित्तम्, व्यभिचारभावाद् गोमय-गोलोमादिप्रभवेभ्यः शालूक-दूर्वादिभ्यः पुनस्तदनुत्पत्तेः। तथाविधसामग्र्यभावतो न . तदुत्पत्तिरिति चेत्, तत्रापि न तदभाव इति न प्रमाणम् । श्रोतृतदुपलब्धिरेव प्रमाणमिति चेत्, न, कचिदसम्भवादित्युक्तम् । (खो० व्या०) श्रोतृविकल्पस्य, असम्भवश्व गम्भीरशास्त्रश्रवणादौ गम्भीरशास्त्रमतिगहनम् । 'आदि'शब्दान्निपुणाभिधानग्रहः । तथोपलब्धेः-वक्तृविकल्पसदृशश्रोतृविकल्पा- १५ सम्भवोपलब्धेः । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे तदनवगमाभावात् तस्य-श्रोतुरनवगमाभावो वक्तृविकल्पसदृशविकल्पोत्पादे । अभ्युपगमे च अनवगमाभावस्य प्रतीतिविरोधः, क्वचिदनवगमप्रतीतेः । दूषणान्तरमाह-कचित् सम्भवेऽपि वक्तृविकल्पसदृशश्रोतृविकल्पस्य तदव. गमासम्भवाच । असम्भवश्व परचेतसः अप्रत्यक्षत्वात् । अप्रत्यक्षत्वे २० च तदाकारोऽतदाकार इति सन्देहात् । स्वात्मनि ततः-शब्दात् तदाकारविकल्पोत्पत्त्या करणभूतया तत्तजननवभावत्वावगतेः तस्यशब्दस्याधिकृतविकल्पजननस्वभावत्वावगतेः कारणात् न सन्देह इति चेत् तजननस्वभावो हि तदेव जनयतीति कृत्वा । एतदाशङ्कयाह-न, कचिदसम्भवात् इत्युक्तमधः । न च याशाद् विकल्पाद् यः समुत्पन्नः शब्दः स २५ तादृशस्यैव विकल्पस्य हेतुरित्यसन्देहे निमित्तं सामान्येन । कुत इत्याहव्यभिचारभावात् । भावश्च गोमय-गोलोमादिप्रभवेभ्यः शालूकदूवादिभ्यः पुनस्तदनुत्पत्तेः-गोमय-गोलोमाधनुत्पत्तेः । तथाविधसामग्यभावतः कारणात् न तदुत्पत्तिः-गोमयगोलोमाधुत्पत्तिः । इति चेत्, एतदाशङ्कयाह-तत्रापि-शब्दविकल्पचिन्तायां न तदभाव इति न-तथाविध-३० सामग्र्यभाव इति न प्रमाणम् । श्रोतुस्तदुपलब्धिस्तथाविधविकल्पोत्पादेन श्रोतृ१ 'स' इति पाठो नास्ति ग-प्रतौ । २ 'कल्पोपादेन अभ्यु०' इति ङ-पाठः । ३ अस्मिन्नेव पृष्ठे ।

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453