Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 314
________________ अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २७९ (मूलम्) __ अत्रोच्यते-न खल्वस्माभिर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिवन्धनं निषिध्यते। किं तर्हि ? एकादिधर्मयुक्तं परपरिकल्पितं सामान्यमिति। तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति तथा लेशतो ५ निदर्शितमेव, प्रपञ्चतस्त्वन्यत्र वृत्त्ययोगसङ्ख्यादिव्यभिचार-तद्वत्प्रत्ययप्रसङ्गादिना युक्तिकलापेन निराकृतमिति नेह प्रयासः॥ __ आह-किं पुनर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिवन्धनमिति ? उच्यते-अनेकधर्मात्मकानां वस्तूनां तथाविधः समानपरिणाम इति । न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलप्रभवदोषसम्भवः, १० (स्वो० व्या०) पारमार्थिकस्य सामान्यस्य सत्त्वमाश्रयितव्यमिति ॥ एतदाशङ्कयाह-अत्रोच्यते-न खल्वस्माभिः-जैनैर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि ? एकादिधर्मकं परपरिकल्पितं सामान्यमिति सामान्यं निषिध्यते । तच्च-एकादिधर्मकं सामान्यं यथा १५ विशेषवृत्त्ययोगेन हेतुना न घटां प्राञ्चति-न घटनं गच्छति, तथा लेशतो निदर्शितमेव, प्रपञ्चतस्त्वन्यत्र-स्याद्वादकुचोद्यपरिहारादौ वृत्त्ययोगश्च सङ्ख्यादिव्यभिचारश्च तद्वत्प्रत्ययप्रसङ्गादिश्चेति समासः तेन । केनेत्याह-युक्तिकलापेन-उपपत्तिसङ्घातेन निराकृतमिति कृत्वा नेह प्रयासः-नेह प्रयत्नविशेषः । तत्र वृत्त्ययोगो दर्शित एव 'यदेकबुद्ध्येकशब्दप्रवृत्ति-२० निमित्तं तत् सामान्यम्' इत्यभ्युपगमे सङ्ख्यादिमिळभिचारः-एकसङ्ख्याऽपि भवत्येकबुद्ध्ये कशब्दप्रवृत्तिनिमित्तम् । 'आदि'शब्दात् तत्समवायश्च, न चासौ सामान्यमिति व्यभिचारः । तथाभावेऽपि सामान्यस्य विशेषेषु तद्वत् प्रत्ययप्रसङ्गः 'एकसामान्यवन्तो विशेषाः' इति प्रत्ययः प्राप्नोति, न 'समानाः' इति । 'आदि'शब्दाद् । विशेषविनाशे तत्र तत्केवलग्रहणप्रसङ्ग इति सङ्केपगर्भार्थः । इत्यलं प्रसङ्गेन ॥ २५ आह-किं पुनर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनमिति? उच्यतेअनेकधर्मात्मकानां सत्त्व-ज्ञेयत्वाद्यपेक्षया वस्तूनां-घट-शरावो-ष्ट्रिको-दञ्चनादीनां तथाविधः-मृन्मृदित्यभिन्नबुद्धिशब्दद्वयप्रवर्तकः समानपरिणाम इति । . १ प्राप्नोतीति तथा' इति ग-पाठः । २ स्याद्वादकुचोद्यपरिहारादौ। ३ 'प्रायप्रसङ्गा.' इति क-पाठश्चिन्तनीयः।

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453