________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २७९
(मूलम्) __ अत्रोच्यते-न खल्वस्माभिर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिवन्धनं निषिध्यते। किं तर्हि ? एकादिधर्मयुक्तं परपरिकल्पितं सामान्यमिति। तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति तथा लेशतो ५ निदर्शितमेव, प्रपञ्चतस्त्वन्यत्र वृत्त्ययोगसङ्ख्यादिव्यभिचार-तद्वत्प्रत्ययप्रसङ्गादिना युक्तिकलापेन निराकृतमिति नेह प्रयासः॥ __ आह-किं पुनर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिवन्धनमिति ? उच्यते-अनेकधर्मात्मकानां वस्तूनां तथाविधः समानपरिणाम इति । न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलप्रभवदोषसम्भवः, १०
(स्वो० व्या०) पारमार्थिकस्य सामान्यस्य सत्त्वमाश्रयितव्यमिति ॥
एतदाशङ्कयाह-अत्रोच्यते-न खल्वस्माभिः-जैनैर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि ? एकादिधर्मकं परपरिकल्पितं सामान्यमिति सामान्यं निषिध्यते । तच्च-एकादिधर्मकं सामान्यं यथा १५ विशेषवृत्त्ययोगेन हेतुना न घटां प्राञ्चति-न घटनं गच्छति, तथा लेशतो निदर्शितमेव, प्रपञ्चतस्त्वन्यत्र-स्याद्वादकुचोद्यपरिहारादौ वृत्त्ययोगश्च सङ्ख्यादिव्यभिचारश्च तद्वत्प्रत्ययप्रसङ्गादिश्चेति समासः तेन । केनेत्याह-युक्तिकलापेन-उपपत्तिसङ्घातेन निराकृतमिति कृत्वा नेह प्रयासः-नेह प्रयत्नविशेषः । तत्र वृत्त्ययोगो दर्शित एव 'यदेकबुद्ध्येकशब्दप्रवृत्ति-२० निमित्तं तत् सामान्यम्' इत्यभ्युपगमे सङ्ख्यादिमिळभिचारः-एकसङ्ख्याऽपि भवत्येकबुद्ध्ये कशब्दप्रवृत्तिनिमित्तम् । 'आदि'शब्दात् तत्समवायश्च, न चासौ सामान्यमिति व्यभिचारः । तथाभावेऽपि सामान्यस्य विशेषेषु तद्वत् प्रत्ययप्रसङ्गः 'एकसामान्यवन्तो विशेषाः' इति प्रत्ययः प्राप्नोति, न 'समानाः' इति । 'आदि'शब्दाद् । विशेषविनाशे तत्र तत्केवलग्रहणप्रसङ्ग इति सङ्केपगर्भार्थः । इत्यलं प्रसङ्गेन ॥ २५
आह-किं पुनर्यथोक्तबुद्धि-शब्दद्वयप्रवृत्तिनिबन्धनमिति? उच्यतेअनेकधर्मात्मकानां सत्त्व-ज्ञेयत्वाद्यपेक्षया वस्तूनां-घट-शरावो-ष्ट्रिको-दञ्चनादीनां तथाविधः-मृन्मृदित्यभिन्नबुद्धिशब्दद्वयप्रवर्तकः समानपरिणाम इति । . १ प्राप्नोतीति तथा' इति ग-पाठः । २ स्याद्वादकुचोद्यपरिहारादौ। ३ 'प्रायप्रसङ्गा.' इति क-पाठश्चिन्तनीयः।