________________
२८०
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) समानपरिणामस्य तद्विलक्षणत्वात्, तुल्यज्ञानपरिच्छेद्यवस्तुरूपस्य समानपरिणामत्वात्, अस्यैव च सामान्यभावोपपत्तेः। ५समानानां भावः सामान्य मिति यत् तत्समानस्तथा भूयत इत्यन्वर्थयोगात्, अर्थान्तरभूतभावस्य च तद्व्यतिरेकेणापि तत्समानत्वेऽनुपयोगात्, अन्यथा समानानामित्यभिधानाभावादयुक्तैव तत्कल्पना । समानत्वं च भेदाविनाभाव्येव, तदभावे सर्वथैकत्वतः समानत्वानुपपत्तेरिति तथाविधः समानपरिणाम एव समान१० बुद्धि-शब्दद्वयप्रवृत्तिनिमित्तम् ॥
(खो० व्या०) न चात्र-समानपरिणामे सामान्यवृत्तिपरीक्षायामुपन्यस्तं च तद् विकल्पयुगलकं च, 'तथाहि-तदेकादिस्वभावं सामान्यमनेकेषु दिग्देशसमयस्वभावभिन्नेषु विशेषेषु सर्वात्मना वा वर्तेत देशेन वा' इत्येतत् तत्प्रभवाश्च ते दोषाश्च सामा१५ न्यानन्त्यादयः तेषां सम्भवो न च । कुत इत्याह-समानपरिणामस्य तद्वि
लक्षणत्वात्-एकादिधर्मकसामान्यविलक्षणत्वात् । वैलक्षण्यमेवाह तुल्येत्यादिना । तुल्यज्ञानपरिच्छेद्यं च तद् वस्तुरूपं चेति विग्रहस्तस्य समानपरिणामत्वात् । अस्यैव-समानपरिणामस्य सामान्यभावोपपत्तेः। उपपत्तिश्च समानानां भावः सामान्यमिति यत् तत् समानस्तथा भूयत इति २० कर्तरि षष्ठी इति-एवमन्वर्थयोगात् । नायं परपक्ष इत्याह-अर्थान्तरभूतभावस्य च सम्बन्धपक्षे समानानां सम्बन्धिनः तद्व्यतिरेकेणापि-भावव्यतिरेकेण अपि तदर्थान्तरत्वेन तत्समानत्वे तेषां-समानानां समानत्वे, प्रकृत्यैवेति भावः । किमित्याह-अनुपयोगात् अधिकृतभावस्य, तमन्तरेणैव ते समाना इति कृत्वा ।
अन्यथा-एवमनभ्युपगमे तमन्तरेण तदसमानत्वे प्रकृत्या समानानामित्यभि२५ धानाभावादयुक्तैव तत्कल्पना-अधिकृतभावकल्पना समानानां भाव इति एतत्सम्बन्धिनामसमानानामिति कृत्वा । उपचयमाह-समानत्वं च-तुल्यत्वं च भेदाविनाभाव्येव अयमनेन समान इति नीतेः । तदभावे-भेदाभावे सर्वथैकत्वतः कारणात् । किमित्याह-समानत्वानुपपत्तेः । इति-एवं तथाविधा-मृन्मृदित्यभिन्नबुद्धि-शब्दद्वयप्रवर्तकः समानपरिणाम एव समान३० बुद्धि-शब्दद्वयप्रवृत्तिनिमित्तमिति स्थितम् ।।
१ज्ञानाभावा.' इति क-पाठः। २ 'समानाकारानुप०' इति क-पाठः। ३ द्रष्टव्यं २७४तम पृष्ठं २७५तमं च । ४ 'ज्ञानाभारात्' इति क-पाठः ।