________________
२७८
अनेकान्तजयपताकाख्यं प्रकरणम् [.तृतीया
(मूलम्) आह-अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्प्रतिक्षेपेणात्मानमायासयितुम् , आयासस्य निष्फल५त्वात् । तथाहि-यदि सनातनं वस्तुसद् व्याप्येकमनवयवं सामान्यवस्तु न स्यात्, न तदा देशकालखभावभेदभिन्नेषु घट-शरावोष्ट्रिको-दञ्चनादिषु बहुषु विशेषेषु सर्वत्र मृन्मृदित्यभिन्नौ वुद्धिशब्दो स्याताम् । न खलु हिम-तुषार-करको-दका-ऽङ्गार-मुर्मुर-ज्वाला-ऽनल
झञ्झा-मण्डलिको-स्कलिका-पवन-खदिरो-दुम्बर-बदरिकादिष्वत्य१०न्तभिन्नेषु बहुषु विशेषेष्वेकाकारा वुद्धिर्भवति, नाप्येकाकारः शब्दः
प्रवतेत इति, अतोऽस्य यथोक्ताभिन्नबुद्धि-शब्दद्वयप्रवृत्तिनिवन्धनस्य वस्तुसतः सामान्यस्य सत्त्वमाश्रयितव्यमिति ।।
(खो० व्या०) आह परः-अनुभवसिद्धत्वात् सामान्यस्य विशेषेषु तुल्यबुद्धिभावेन १५न युज्यते सहृदयतार्किकस्य-भावाशून्यस्य तत्प्रतिक्षेपेण-सामान्यप्रतिक्षेपेण आत्मानमायासयितुम् । कुतो न युज्यत इत्याह-आयासस्य निष्फलत्वात् । एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । यदि सनातनं-नित्यं वस्तुसत्-अपरिकल्पितं व्यापि-विशेषव्यापनशीलमेकं स्वरूपेण
अनवयवम्-अवयवरहितं सामान्यवस्तु न स्यात् । ततः किं स्यादित्याह२० न तदा देश-काल-स्वभावभेदभिन्नेषु । केष्वित्याह-घट-शरावो-ष्ट्रिको
दश्चनादिषु । उदञ्चनः-लोट्टकः । 'आदि'शब्दादलिञ्जरादिग्रहः । बहुषु विशेषेषु सर्वत्र मृन्मृदिति-एवं अभिन्नौ-तुल्यौ, एकरूपावित्यर्थः । कावि- त्याह-बुद्धि-शब्दौ स्याताम् । किमिति न स्यातामित्याह-न खल्वित्यादि ।
नैव हिम-तुषार-करको-दकानि चेत्यनेन जलभेदानाह । अङ्गार-मुर्मुर२५ ज्वाला-ऽनलाश्चेत्यनेन त्वग्निभेदान् , झञ्झा-मण्डलिको-कलिका-पवनाश्च
इत्यनेन वायुभेदान् , खदिरो-दुम्बर-बदरिकादयश्चेत्यनेन च वनस्पतिभेदानाह । 'आदि'शब्दः प्रत्येकं धारादिसङ्ग्रहार्थः । एतेषु अत्यन्तभिन्नेषु जातिभेदापेक्षया बहुषु विशेषेषु-भेदेषु एकाकारा बुद्धिर्भवति, तथाऽननुभवात् । नाप्येकाकारः शब्दः प्रवर्तत इति मृन्मृदित्यादि शब्दवत्, अतोऽस्य सामा३० न्यस्येति योगः, यथोक्तं च-तन्मृन्मृदित्यादिरूपतया अभिन्नं च तद् बुद्धिशब्दद्वयं चेति विग्रहस्तस्य प्रवृत्तिनिवन्धनं-प्रवृत्तिकारणं तस्य वस्तुसत:१ 'समानतं वस्तु' इति ग-पाठश्चिन्त्यः। २ 'सामान्य वस्तु' इति क-पाठः ।