________________
२७७
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २७७
(मूलम्) कान्तवादाभ्युपगमात् स्वकृतान्तप्रकोपः। अथान्यत्वं किं सर्वथा उत कथञ्चित् ? । यदि सर्वथा, अन्यतरस्यान भोभागत्वप्रसङ्गः, सर्वथा भेदान्यथाऽनुपपत्तेः। अथ कथञ्चित्, स्वदर्शनपरित्यागदोष इति। ५ स्यादेतद् भागानभ्युपगमाद् व्योम्नो यथोक्तदोषानुपपत्तिरिति । अभ्युपगममात्रभक्तो देवानांप्रियः सुखैधितो नोपपत्तिप्राप्तानपि भागानवगच्छतीति, ननु विशिष्टभावभावाभावगम्या एव भागा इत्यवगमे निवेश्यतां चित्तमित्यलं प्रसङ्गेन । एतेन नित्यव्यापिनिर्देशसामान्यवृत्तिरपि प्रत्युक्ता ।
(खो० व्या०) गमात् स्वकृतान्तप्रकोपः,स्वसिद्धान्तविरोध इत्यर्थः। द्वितीय विकल्पमधिकृत्याहअथान्यत्वमधिकृतनभोभागयोः किं सर्वथाऽन्यत्वमुत कथञ्चित् ?। यदि सर्वथा-एकान्तेनान्यत्वं ततः किमित्याह-अन्यतरस्य यत्र 'विन्ध्य भावो यत्र चाभाव इत्यनयोरेकस्य किमित्याह-अनभोभागत्वप्रसङ्गः । कुत इत्याह-१५ सर्वथा भेदान्यथाऽनुपपत्तेः सर्वधर्मवैलक्षण्ये हि सर्वथा भेदस्तस्मिंश्च सत्येकस्य भावरूपता अपरस्य साऽपि नेत्येतदेव भवतीति भावना । अथ कथश्चिदन्यत्वमधिकृतनभोभागयोरित्यत्राह-खदर्शनपरित्यागदोषः, एकान्तदर्शनं हि परस्य खदर्शनं तत्परित्यागदोष इति । स्यादेतद् भागानभ्युपगमाद् व्योम्न:आकाशस्य यथोक्तदोषानुपपत्तिरिति । एतदधिकृत्याह-अभ्युपगममात्र-२० भक्तो देवानांप्रियः, मूर्ख इत्यर्थः, सुखैधितः-शास्त्रग्रहणपरिश्रमत्यागेन सुखवर्धितः नोपपत्तिप्राप्तानपि 'विन्ध्य भावभावाभावाभ्यां भागानवगच्छतीति । एतद्भावनायैवाह-ननु विशिष्टभावभावाभावगम्या एव भागा विशिष्टभावोऽन्यव्यावृत्ततया 'विन्ध्य भाव एव, तद्भावाभावगम्या एव भागा व्योम्नः । न हि निर्भागे परमाणौ कार्यस्य व्यणुकादेः कचिद् भावः २५ क्वचिन्न इति स्वदर्शनस्थित्याऽपि अवगमे निवेश्यतां चित्तमित्यलं प्रसङ्गेन । एतेनेत्यादि । एतेन-एकसामान्यवृत्तिनिराकरणेन नित्यव्यापिनिर्देशसामान्यवृत्तिरपि प्रत्युक्ता विशेषेषु, नित्यस्सैकस्वभावतया कालभिन्नासु व्यक्तिषु वृत्त्ययोगः, व्यापिनः सर्वगतत्वेन निर्देशस्य देशाभावेनेति भावनीयम् ॥
१ 'ग्रहणपरिग्रहणपरिश्रम.' इति क-पाठः ।