________________
२७६
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम् ) 'विन्ध्य'-'हिमवदा'दीनामेकत्रावस्थानप्रसङ्गा, निष्पदेशैकाकाशसं. योगान्यथानुपपत्तेः। अथान्येन, आयातं तर्हि सदेशत्वमाकाशस्य ॥ ५ स्यादेतददेशत्वाद् वियतो यथोक्तविकल्पासम्भवः, तत्रैकस्मिन्नेव तेषामवस्थितत्वात् । इदमप्ययुक्तम् , वस्तुतः पूर्वोक्तदोषानतिवृत्तेः। न च सर्वव्यापिनो 'विन्ध्या'दय इति, येन 'तस्मिन्नेव तेषामवस्थित. त्वात्' इति सफलं भवेदित्यतो यत्र 'विन्ध्य भावो यत्र चाभाव इत्यनयोन भोभागयोरनन्यत्वमन्यत्वं वेति वाच्यम्। किश्चातः । यद्यन० न्यत्वं किमु सर्वथा आहोखित् कथञ्चित् ?। यदि सर्वथा हन्त तर्हि यत्र 'विन्ध्य भावस्तनाप्यभावः स्यात्, तदभाववनभोभागाव्यतिरिक्तत्वात् तदभाववन्नभोभागस्य विपर्ययो वा। अथ कथञ्चिदने.
(खो० व्या०) किञ्चातः? उभयथाऽपि दोष इत्याह-यदि तेनैव ततो 'विन्ध्य'-'हिमवदा'दीनां १५ पर्वतानामेकत्र देशेऽवस्थानप्रसङ्गः । कुत इत्याह-निष्प्रदेशं च तदेकाकाशं
च तेन संयोगस्तदन्यथाऽनुपपत्तेरिति । अथान्येन एतदाशङ्कयाह-आयातं तर्हि संदेशत्वमाकाशस्य, तथाऽभ्युपगमात् ॥
स्यादेतत् अदेशत्वाद् वियतः-आकाशस्य यथोक्तविकल्पासम्भवः, तत्र-वियत्येकस्मिन्नेव निष्प्रदेशे तेषां-'विन्ध्या'दीनामवस्थितत्वात्। एतदा२० शझ्याह-इदमप्ययुक्तम्, वस्तुत:-परमार्थतः पूर्वोक्तदोषानतिवृत्तेः-- 'विन्ध्य'-'हिमवदा'दीनामेकत्रावस्थानादिप्रसङ्गः पूर्वोक्तो दोषस्तदनतिवृत्तेः । एनमेव प्रकारान्तरेण समर्थयन्नाह-न च सर्वव्यापिनो "विन्ध्या 'दय इति येन 'तस्मिन्-एकस्मिन्नेव तेषामवस्थितत्वात्' इति सफलं भवेत् , अतो यत्रेति देशे "विन्ध्यभावो यत्र चाभाव इत्यनयोर्नभोभागयो:-आकाशदेशयोः २५ किमित्याह-अनन्यत्वमन्यत्वं वेति वाच्यम् । किश्चातः ? यद्यनन्यत्वं किं सर्वथा आहोखित् कथञ्चित् ? । यदि सर्वथा अनन्यत्वं हन्त तर्हि यत्र 'विन्ध्यभावस्तत्राप्यभावः स्यात् । कुत इत्याह-तदभाववनभोभागाव्यतिरिक्तत्वात्-'विन्ध्या भाववन्नभोभागाव्यतिरिक्तत्वात् । तदुभाववनभोभागस्य-विन्ध्य भाववन्नभोभागस्य, विपर्ययो वा, यत्राभावस्तत्रापि ३० भावप्राप्तेः । अथ कथञ्चिदनन्यत्वम् । एतदाशङ्कयाह-अनेकान्तवादाभ्युप
१ 'सप्रदेश.' इति क-घ-पाठः ।