________________
२७५
अधिकार:] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) नेकेषु दिग्देश-समय-स्वभावभिन्नेषु विशेषेषु सर्वात्मना वा वर्तते देशेन वा।न तावत् सर्वात्मना, सामान्यानन्त्यप्रसङ्गात्, विशेषाणामनन्तत्वात् , एकविशेषव्यतिरेकेण वाऽन्येषां सामान्यशून्यतापत्तेः५ आनन्त्ये चैकत्वविरोधात् । नापि देशेन, सदेशत्वप्रसङ्गात् । न च गगनवद् व्यापित्वाद् वर्तत इति ब्रूम इत्यकलङ्कन्यायानुसारि चेतोहरं वचः, अविचारितरमणीयत्वात्, काळ-देशव्यतिरेकेण वृत्त्यदर्शनात् । उभयव्यतिरेकेण नभसो वृत्तिरिति चेत्, न, असिद्वत्वात्, नभसः सप्रदेशत्वाभ्युपगमात्, निष्प्रदेशत्वे चानेकदोष- १० प्रसङ्गात् । तथाहि-येन देशेन "विन्ध्ये न सह संयुक्तं नभो 'हिमवन्''मन्दरा'दिभिरपि किं तेनैव आहोखिदन्येनेति ? । यदि तेनैव
(खो० व्या०) एकं नित्यं निरवयवं निष्क्रियं च अनेकेषु दिग्देश-समय-स्वभावभिन्नेषु विशेषेषु-घटादिषु सर्वात्मना वा वर्तते देशेन वान तावत् सर्वात्मना १५ वर्तते । कुत इत्याह-सामान्यानन्त्यप्रसङ्गात् । प्रसङ्गश्च विशेषाणामनन्तस्वात् । दोषान्तरमाह-एकविशेषव्यतिरेकेण वा अन्येषां-विशेषाणां किमित्याह-सामान्यशून्यतापत्तेः, एकत्रैव सामान्यवृत्तेरिति । आनन्ये च सामान्यानामेकत्वविरोधात् न तावत् सर्वात्मनेति । नापि देशेन वर्तते, सामान्यं विशेषेष्विति प्रक्रमः, सदेशत्वप्रसङ्गात् सामान्यस्य । न च गगनवत् इति २० दृष्टान्तः, व्यापित्वात् कारणाद् वर्तत इति ब्रूम इत्यकलङ्कन्यायानुसारि
चेतोहरं वचः । कुत इत्याह-अविचारितरमणीयत्वात् । एतदेवाहकाळ-देशव्यतिरेकेण वृत्त्यदर्शनात् लोके । उभयव्यतिरेकेणकायंदेशोभयव्यतिरेकेण नभस:-आकाशस्य वृत्तिरिति चेद् भावेष्वाधेयादिवेन । एतदाशझ्याह-न, असिद्धत्वात् , अधिकृतनभोवृत्तेः । असिद्धिश्च नभसः २५ सप्रदेशत्वाभ्युपगमात् जैनैः। यदा च सप्रदेशं नभस्तदा देश-कालाभ्यां नियोगतोऽस्य वृत्तिः, उभयनिमित्तभावात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-निष्प्रदेशत्वे च नभसोऽनेकदोषप्रसङ्गात् । एतदेव भावयति तथाहीत्यादिना । तथाहीत्युपप्रदर्शने । येन देशेन 'विन्ध्ये'न सह-पर्वतेन संयुक्तं नभो 'हिमवन्''मन्दरादिभिरपि-पर्वतैः किं तेन एव-देशेन आहोखिदन्येनेति? १३०
१ 'वर्तेतांशेन वा' इति ग-पाठः। २ 'इत्यकल्पं कन्यायानुसारि ' इति ग-पाठः ।