________________
२७४
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) अविगानतस्तथा तत्प्रतीतेरित्यतो निर्विकल्पकवद् विकल्पकमपि
अक्षव्यापारानुसारि यथावस्थितवस्तुविषयमविगानतः स्पष्टतुल्य५ विनिश्चयं सत्क्षयोपशमजन्म बांधविज्ञानरहितमवगमादिफलम
भ्रान्तमेष्टव्यम्, अन्यथोक्तवत् तत्तत्त्वनिश्चयाभाव इति विकल्पकत्वेऽपि न भ्रान्तमधिकृतविज्ञानमिति, अतः सामान्यविशेषरूपवस्तुसिद्धिरिति ॥
यचोक्तम्-'एक सामान्यमनेके विशेषाः' इत्यादि तदप्ययुक्तम् , तथाऽनभ्युपगमात् । न हि यथोक्तखभावं सामान्यमभ्युपगम्यते अस्माभिः, युक्तिरहितत्वात् । तथाहि-तदेकादिखभावं सामान्यम
(खो० व्या०) धात्-भ्रान्ताम्रान्तत्वाविरोधात् , तत्त्वतः-परमार्थेन एकत्वासिद्धेः एकानेकत्वादित्यर्थः। हेतुभेदमाह-दोषसामोपयोगात् कामलस्य सामर्थ्याद्धि तत् तथा, १५ तदभावेऽभावात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अविगानत:-अविगानेन लोके तथा-'दोषजत्वेन तत्प्रतीतेः-शङ्खपीतज्ञानप्रतीतेरिति निर्लोठ्यानुषङ्गिकम् , प्रकृतमाह-अतो निर्विकल्पकवदिति निदर्शनम् । विकल्पकमप्यभ्रान्तमेष्टव्यमिति योगः । किविशिष्टमित्याह-अक्षव्यापारानुसारि-अक्षव्यापारानुसरणशीलं यथावस्थितवस्तुविषयं-सामान्यविशेषरूपवस्तुगोचरं अविगानतः-अविगा२० नेन स्पष्टतुल्यविनिश्चयं प्रमानन्तरमधिकृत्य, सत्क्षयोपशमजन्म-विशिष्ट
क्षयोपशमोत्पादं बाधविज्ञानरहितं तथाऽनुभवदायेन, अवगमादिफलं परिच्छित्ति-प्रवृत्ति-प्राप्तिफलमर्थमधिकृत्य अभ्रान्तमेष्टव्यम् ,अन्यथा तदनिष्टौ उक्तवत्-यथोक्तं तथा तत्तत्त्वनिश्चयाभावः यथाऽवस्थितवस्तुतत्त्वनिश्चयाभावः
प्रत्यक्षस्यानिश्चायकत्वात् , विकल्पानां च मिथो विरुद्धानामपि प्रवृत्तेरिति । इति२५ एवं विकल्पकत्वेऽपि सति न भ्रान्तमधिकृतविज्ञानं-सामान्यविशेषावसाय
रूपमिति, अतः अस्माद् विज्ञानात् सामान्यविशेषरूपवस्तुसिद्धिरिति ।। __ यच्चोक्तम्-'एक सामान्यमनेके विशेषाः' इत्यादि मूलपूर्वपक्षे तदप्ययुक्तम् । कुत इत्याह-तथाऽनभ्युपगमात् । एनमेवाह न हीत्यादिना । न हि यथोक्तखभावमेकादिधर्मकं सामान्यमभ्युपगम्यतेऽस्माभिः । कुत ३० इत्याह-युक्तिरहितत्वात् । एतदेवाह-तथाहि-तदेकादिखभावं सामान्य
१ 'बाधाविज्ञान' इति ग-पाठः। २ 'भेषजत्वेन' इति अ-पाठः । ३ 'बाधाविज्ञान.' इति क-पाठः। ४ कुत्र इति विचारणीयम् , यतो न दृश्यतेऽयं पाठः पूर्वगतेषु पृष्ठेषु ।