________________
अधिकारः] खोपलव्याख्यामुनिचन्द्रीयविवरणयुतम् २७३
(मूलम्) आह-अस्तु दोषजं वस्तुत्वमस्याः, शङ्खपीतादिप्रतिभासतुल्यं तु तत्, संस्थानादितत्त्वनिश्चयकल्पा तु स्वसंवित्तिरिति । यदि नामैवं ततः किमिति वाच्यम् । विकल्पज्ञानस्याप्यभ्रान्तता । एवमपि का ५ भवत इष्टसिद्धिः ? । ननु ततस्तत्त्वनीतिभावः। अनिश्चयात्मि'कायाः कथमसौ ? हन्त कल्पनानुवेधात् । स खलु नित्यत्वादिकल्पनयाऽपि । इति विपक्षसाधारणत्वान्नेष्टसिद्ध्यर्थमेवेत्ययुक्त एव । न च निरंशवस्तुवादिनो यथोक्तकल्पनैव सम्भवति, तदेकखभावत्वेन कल्पनाबीजायोगात्, खभावभेदमन्तरेण हेत्वभेदतः फल-१० भेदासिद्धेः॥
भवतोऽपि कथमेकं भ्रान्ताभ्रान्तमिति चेत् चित्रवभावत्वेन तधास्वाविरोधात्, तत्वत एकत्वासिद्धेः, दोषसामोपयोगात्,
(खो० व्या०) आह-अस्तु दोषजं वस्तुत्वमस्या:-कल्पनायाः । शङ्खपीतादिप्रति-१५ भासतुल्यं तु तत्-वस्तुत्वम् , संस्थानादितत्वनिश्चयकल्पा तु खसंवित्तिरिति । एतदाशयाह-यदि नामैवं ततः किमिति वाच्यम् । विकल्पज्ञानस्याप्यभ्रान्तता । एतदाशङ्कयाह-एवमपि का भवत इष्टसिद्धिः । ननु ततः-अभ्रान्तायाः स्वसंवित्तेः तत्त्वनीतिभाव इतीष्टसिद्धिः । एतदाशङ्याह-अनिश्चयात्मिकायाः खसंवित्तेः कथमसौ-तत्त्वनीतिभावः ? । हन्त २० कल्पनानुवेधात् । एतदाशझ्याह-स खलु-कल्पनानुवेधो नित्यत्वादिकल्पनयाऽपि सह इति विपक्षसाधारणत्वात् कारणात् नेष्टसिद्ध्यर्थमेवेति कृत्वा अयुक्त एव इति न किञ्चिदनेन । अभ्युचयमाह-न च निरंशवस्तुवादिनः परस्य यथोक्तकल्पनैव सम्भवति । कुत इत्याह-तदेकखभावत्वेन-निरंशवस्तुन एकस्वभावत्वेन हेतुना कल्पनाबीजायोगात् । अयोगश्च २५ खभावभेदमन्तरेण, प्रक्रमादविकल्पज्ञानवस्तुनः, हेत्वभेदतः कारणात् फलभेदासिद्धेः । फलभेदश्चाविकल्पज्ञानात् कल्पनेति भावनीयम् ॥
भवतोऽपि कथमेकं, प्रक्रमात् कामलिशङ्खपीतज्ञानं, भ्रान्ताभ्रान्तम् ।। इति चेत्, एतदाशङ्कयाह-चित्रवभावत्वेन अधिकृतज्ञानस्य तथात्वाविरो
१ तदैकस्व०' इति घ-पाठः। २ 'शङ्ख पीता.' इति ङ-पाठः ।
अनेकान्त • ३५