________________
२७२ अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) भ्रान्तिज्ञानवन्तोऽपि कामलिप्रभृतयः शङ्खादी संस्थानादितत्त्वनिश्चयनिबन्धनं दृश्यन्त एवेति चेत्, न, तेषां तत्राभ्रान्तत्वात् , ५अन्यथा पीतवर्णादिवत् तत्तत्त्वनिश्चयनिबन्धनाभावः। विकल्पज्ञानमपि खसंवित्तावनान्तमेवेति चेत्, क तर्हि भ्रान्तमिति वाच्यम्। कल्पनायामिति चेत्, न, तस्यास्तदव्यतिरेकात् ; अन्यथा विकल्पज्ञानायोगात् खसंवित्तेर्भेदकासिद्धेबर्बोधमानाद् बोधमात्रभावात् तदतिरिक्तदोषानभ्युपगमात् , अभ्युपगमे च तद्वस्तुत्वेन तद्योगज. १० विकारकल्पनाया वस्तुत्वापत्तेरिति ॥
(स्वो० व्या०) भ्रान्तीत्यादि । भ्रान्तिज्ञानवन्तोऽपि कामलिप्रभृतयः-प्रमातरः शङ्खादौ -प्रमेये संस्थानादितत्त्वनिश्चयनिबन्धलं दृश्यन्त एवेति चेत् ततश्च तद् भ्रान्तं च ज्ञानं तत्वनिश्चयनिबन्धनं चैवमनित्यादिविकल्पा अपि भविष्यन्ति १५ इत्याह-नेत्यादि । न तेषां-कामलिप्रभृतीनां तत्र-शङ्खादिसंस्थानादितत्त्वनिश्चयनिबन्धनाभावः, अभ्रान्तत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा पीतवर्णादिवत्-यथा पीतवर्णादौ तथा तत्तत्वनिश्चय निवन्धनाभावः-शङ्खादिसंस्थानादितत्त्वनिश्चयनिबन्धनाभावः सर्वथा भ्रान्तत्वादिति भावना । विकल्पज्ञान
मपि स्वसंवित्तौ किमित्याह-अभ्रान्तमेवेति चेत् ततश्च किलोक्तदोषा२० नुपपत्तिः इति । एतदाशङ्कयाह-क तर्हि भ्रान्तमिति वाच्यम् । कल्पनायामिति चेद् भ्रान्तम् अत्राह-न, तस्या:-कल्पनायाः तदव्यतिरेकात्-स्वसंवित्त्यव्यतिरेकात् । इत्थं चैतदित्याह-अन्यथा व्यतिरेके सति स्वसंवित्तेः कल्पनाया विकल्पज्ञानायोगात् । अयोगश्च खसंवित्तेः-चिद्रपाया भेदकासिद्धे-अञ्जकासिद्धेः । असिद्धिश्च बोधमात्रात् सकाशात् कारणगताद् बोध२५मात्रभावात् । तत्कायें तदेव दोषसम्पृक्तं विकल्पज्ञानमित्येतन्निरासायाह-तदतिरिक्तदोषानभ्युपगमात्-बोधमात्रातिरिक्तदोषानभ्युपगमात् । अभ्युपगमे च तदतिरिक्तदोषाणां तद्वस्तुत्वेन-दोषवस्तुत्वेन हेतुना तद्योगजविकारकल्पनायाः-दोषयोगजविकारकल्पनाया वस्तुत्वापत्तेः, 'न तेषां तत्राभ्रान्तत्वात्' इत्यतो नेति क्रियायोग इति ॥
१ 'पत्तेः आह' इति क-पाठः। २ 'इत्याशझ्याह' इति घ-पाठः। ३ 'दोषावस्तु' इति घ-पाठः। ४ द्रष्टव्याऽस्यैव पृष्ठस्य चतुर्थी पतिः।