________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २७१
(मूलस्) प्रभाया मण्यर्थेन प्रतिबन्धः, अस्ति च मणिप्रभायाः, न चैवमनित्येतरादिविकल्पानां केषाश्चिदेव वस्तुना प्रतिवन्धो नान्येषामिति वैषम्यमपि दार्शन्तिकेन । अयोनिशोमनस्कारपूर्वकत्वान्नित्यादि- ५ विकल्पानां न वैषम्यमिति चेत्, न, अस्यापि तुल्यत्वात्, अनित्यादि विकल्पानामप्येवम्भूतभावस्य वक्तुं शक्यत्वात्, उभयत्र तन्नियामकत्वानुपपत्तेर्निबन्धाविशेषादिति, अतः स्थितमेतत्'अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थं वचनमपि ताहगेव' इति दुःस्थिता तत्त्वनीतिः ॥
(खो० व्या०) दाहरणमेव । अभ्युच्चयमाह न चेत्यादिना । न च दीपप्रभाया मण्यर्थेन सह प्रतिबन्धोऽस्ति, अस्ति च मणिप्रभाया इत्युभयसिद्धमेतत् । न चैवमनित्येतरादिविकल्पानाम्-अनित्य-नित्यादिविकल्पानाम् , केषाश्चिदेवअनित्यादिविकल्पानामेव वस्तुना प्रतिबन्धो नान्येषां-नित्यादिविकल्पानाम् । १५ किं तर्हि ? अविशेषेण, 'नान्येषां तद्भेदप्रसवे सत्यपि' इत्यादिवचनात् इति-एवं वैषम्यमपि दार्शन्तिकेन । अयोनिशोमनस्कारपूर्वकत्वात् नित्यादिविकल्पानां सर्वथा वस्तुशून्यत्वादित्यर्थः, न वैषम्यमिति चेत् दार्टान्तिकेन। एतदाशङ्कयाह-न, अस्यापि तुल्यत्वात्। एतदेवाह-अनित्यादिविकल्पानामपि पराभिमतानां एवम्भूतभावस्य-अयोनिशोमनस्कारपूर्वकत्वभावस्य वक्तुं २० शक्यत्वात् । तथाहि-अनित्यादिविकल्पा एवायोनिशोमनस्कारपूर्वका वस्त्वसंस्पर्शिनः सतोऽसत्त्वानापत्त्या असतश्च सद्भावविरोधेन वस्तुन एवैवम्भूतस्यासम्भवादिति बाधकप्रमाणवृत्तिः, अतः स्थितमेतत्-'अनित्यादिविकल्पानामेवम्भूतभावस्य वक्तुं शक्यत्वात्' इति । उँभयत्रेत्यादि । उभयत्र-नित्यादिविकल्पपक्षेऽनित्यादिविकल्पपक्षे च तन्नियामकत्वानुपपत्तेस्तस्य--अयोनिशोमनस्कारपूर्वकत्वस्य नियामकत्वानुप- २५ पत्तेः । अनुपपत्तिश्च निबन्धनाविशेषात् निबन्धनाविशेषश्च सर्वेषां तद्भेदप्रसवत्वेन इति । अतः स्थितमेतत्-अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थं-विकल्पसामोत्थं वचनमपि तादृगेव-भ्रान्तमेव इतिएवं दु:स्थिता तत्त्वनीतिः ॥
१ 'शक्यमानत्वात्' इति ग-पाठः। २ द्रष्टव्यं २४९तम पृष्ठम् । ३ द्रष्टव्यं २५०तमं पृष्टम् । ४ 'इति' इत्यधिको क-पाटः ।