________________
२७०
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः
(मूलम् ) रूपज्ञानसमनन्तरभाविनो रसज्ञानस्य तदनुपादानत्वे अनुपादानत्वप्रसङ्गात् । किं वा तत्तथाभावाभावेऽत्यन्तासत एव भवतः अस्योपादानचिन्तया? तत्तथाभावे चानिवारितोऽन्वयः । एतेन सदा सत्त्वोपलम्भः प्रत्युक्तः, तत्त्वतस्तस्यापि सादृश्यनिबन्धनत्वात् तस्य चोक्तवद् ग्रहणायोगात्, आन्तरतद्विकल्पबीजस्याप्रमाणत्वात् , तथापि तत्कल्पनायाश्चेतरत्रापि तुल्यत्वादित्युक्तप्रायम्॥ एवं प्रदीपप्रभोदाहरणं सर्वत्रगत्वादनुदाहरणमेव । न च दीप
(खो० व्या० ) रूपज्ञानसमनन्तरभाविनो रसज्ञानस्य तदनुपादानत्वे-रूपज्ञानानुपादानत्वे अनुपादानत्वप्रसङ्गात् । न तदपरं ज्ञानमुपादानम् , न च न भवति रूपज्ञानानन्तरं रसज्ञानमिति भावनीयम् । किं वा तत्तथाभावाभावे तस्य-- रूपज्ञानस्य तथा-रसज्ञानतया भावाभावे अन्वयानभ्युपगमेन अत्यन्तासत एव १५ भवतोऽस्य-रसज्ञानस्य-उपादानचिन्तया परमार्थतः सर्वत्रासत सद् भवतीति कृत्वा ? तत्तथाभावे च तस्य-रूपज्ञानस्य तथाभावे च-रसज्ञानभावे चाभ्युपगम्यमाने सति । किमित्याह-अनिवारितोऽन्वयः, बलादापद्यत इत्यर्थः । एतेनेसादि । एतेन-अनन्तरोदितेन सदा सत्त्वोपलम्भः प्रत्युक्तः। कथमित्याहतत्त्वतः-परमार्थतः तस्यापि-सदासत्त्वोपलम्भस्य सादृश्यनिवन्धनत्वात् । २० यदि नामैवं ततः किमित्याह-तस्य च-सादृश्यस्य उक्तवत्-यथोक्तं-'पतिनियतैकग्राहिज्ञानतत्त्ववादे' इत्यादि, तथा ग्रहणायोगात्, आन्तरतद्विकल्पबीजस्य-असद्दर्शनवासनाख्यनित्यत्वादिविकल्पबीजस्य अप्रमाणत्वात् नैतद् ग्राहक प्रमाणमस्ति, तथापि-प्रमाणाभावेऽपि तत्कल्पनायाश्च-आन्तरतद्विकल्पबीजकल्पनायाश्च, इतरत्रापि, प्रक्रमादनित्यत्वादौ, तुल्यत्वादित्युक्तप्रायं२५प्रायेणोक्तम् 'आन्तरदोषसामात्' इत्यादिना ग्रन्थेन ।
पूर्वपक्षान्तरमधिकृत्याह-एवमित्यादि । एवम्-उक्तनीत्या प्रदीपप्रभोदाहरणं पैरप्रणीतं सर्वत्रगत्वात् कारणात् विपक्षेऽप्युपनयकरणेन किमित्याह-अनु
(विवरणम् ) (२७) विपक्षेऽप्युपनयकरणेनेति । एतदपि वक्तुं शक्यत एव-यथा प्रदीपस्य ३० प्रभायां मणिज्ञानं भ्रान्तम् , एवं नित्यस्वभावे वस्तुनि ये अमी अनित्यादयो विकल्पास्ते भ्रान्ता एवेति ॥
१ 'भावे वाऽनिवारितो' इति ग-पाठः। २ 'तदा परं' इति क-उ-पाठः। ३ द्रष्टव्यं २६९तम पृष्ठम् । ४२६७तमे पृष्ठे। ५ 'परप्रतीतं' इति ङ-पाठः ।