________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) तदनिश्चयः । किञ्चित्सामान्यग्रहणेन विशेषान्तरसमारोपादिति चेत्, किमत्यन्तभेदिनां सामान्यम् ? । सदृशापरापरोत्पत्तिरिति चेत्, प्रतिनियतैकग्राहिज्ञानतत्त्ववादे कुतोऽस्थाः स्वल्ववगमः ? ॥५ न हि कथञ्चिदेकस्यानेकग्राहिणो विज्ञानस्याभावे केनचित् सदृशः अयमिति भवति, अतिप्रसङ्गात् , रूपग्रहणस्यापि रसग्रहणसदृशतापत्तेः। एवं च व्यवस्थानुपपत्तिः। न रूपज्ञानं रसज्ञानोपादानम् , अतोऽयमदोष इति चेत्, न न भवति, कचित् तथाभावोपपत्ते,
(खो० व्या०) नित्यत्वादिरूपतयेतीतरेतराश्रयदोषः। कथं वेत्यादि । कथं वा तस्य-प्रत्यक्षस्य तत्प्रतिभासत्वे, प्रक्रमादनित्यत्वाद्याकारत्वे, तन्नीलत्वादिवत् तस्य-वस्तुनो नीलत्वादिवदिति निदर्शनं व्यतिरेकेण, तदनिश्चय:-अनित्यत्वाधर्थानिश्चयः । किश्चित्सामान्यग्रहणेन, अपरसदादिग्रहणेनेत्यर्थः, विशेषान्तरसमारोपात्-सर्वसदादिसमारोपादिति चेत् तदनित्यत्वाद्यनिश्चयः । एतदाशक्याह--१५ किमत्यन्तभेदिनां सामान्यम् ? । वस्तूनामिति प्रक्रमः । सदृशापरापरोत्पत्तिरिति चेत्, प्रस्तुतसामान्यम् । एतदाशङ्कयाह-प्रतिनियतैकग्राहिज्ञानतत्त्ववादे क्षणिकत्वेन कुतोऽस्याः-सदृशापरापसेत्पत्तेः खल्ववगमः ? । नैवेत्यर्थः । एतदेव भावयति न हीत्यादिना । न हि कथञ्चिदेकस्यानेकग्राहिणो विज्ञानस्याभावे अन्वयिन इत्यर्थः, केनचित् सदृशोऽयं, प्रक्रमाद् भाव २० इति भवति । किं न भवतीत्याह-अतिप्रसङ्गात् । एनमेवाह-रूपग्रहणस्यापि रसग्रहणसदृशतापत्तेः तेन तदग्रहणाविशेषादिति भावः । एवं चअतिप्रसङ्गे सति व्यवस्थानुपपत्तिः । न रूपज्ञानं रसज्ञानोपादानं यथा रूपज्ञानोपादानमेव, अतोऽयम्-अतिप्रसङ्गदोषोऽदोषः । इति चेत्, एतदाशङ्कयाह-न न भवति रूपज्ञानं रसज्ञानोपादानम् , किन्तु भवत्यपि कचित् सामा- २५ न्येन तथाभावोपपत्तेः-रूपज्ञानस्य रसज्ञानोपादानभावोपपत्तेः । एतदेवाह
(विवरणम् ) (१४) अपरसदादिग्रहणेनेति । अपरस्य-स्खलक्षणव्यतिरिक्तस्य सदादे:सत्त्वादेः सामान्यस्य ग्रहणं-विकल्पनं तेन ॥
(१५) सर्वसदादिसमारोपादिति । सर्वं सत् इत्यादिनोल्लेखेन समारोपोऽविद्य-३० मानस्य सत्त्वादेः सामान्यस्य विकल्पेन योजना तस्मात् ।।
१ 'कथं चैकस्या' इति क-पाठः । २ 'सर्वत्र सदादि.' इति उ-पाठः। ३ 'रूपादिग्रहण.' इति क-हु-पाठः। ४ 'किञ्चित्' इति क-पाठः ।