________________
२६८ अनेकान्तजयपताकाख्यं प्रकरणम्
[ तृतीयः (मूलम्) कस्यचिनिश्चायकम् , तथ्यमपि गृह्णाति न तन्निश्चयेन । किं तर्हि ? तत्प्रतिभासेन । स चैवम्भूत एव, नान्यथेति ऋते अतीन्द्रियार्थ५ दर्शितामतिशयश्रद्धा वा न विनिश्चयोपायः। न तदेव, सम्प्रमुग्धमूककल्पत्वात् । नानुमानम् , तथाविधलिङ्गासिद्धेः, न चान्यत्, अनभ्युपगमात्, अनित्यतादिरूपस्यैव वस्तुनि विद्यमानत्वात् । स एवम्भूतो नान्यथेति चेत्, कुतस्तत्रास्यैव विद्यमानतासिद्धिरिति
वाच्यम् । तत्तथाप्रत्यक्षप्रतिभासादेवेति चेत्, सोऽयमितरेतराश्रय१० दोषोऽनिवारितप्रसरः । कथं वा तत्तत्प्रतिभासत्वे तन्नीलत्वादिवत्
(स्वो० व्या०) न प्रमाणं-नास्मिन् विषये प्रत्यक्षं प्रवर्तते, नाप्यनुमानमित्यर्थः । प्रत्यक्षमेवात्र-तथादृष्ट इति विषये प्रमाणम् । इति चेत्, एतदाशक्याह-न तदित्यादि । न तत्-प्रत्यक्षं कस्यचिद् वस्तुनो निश्चायक तथ्यमपि अर्थविशेषं गृह्णाति ने ५ तन्निश्चयेन-एवमेतदित्येवंरूपेण । किं तर्हि ? तत्प्रतिभासेन-तदाकारण, ग्राह्याकारणेत्यर्थः । स चेत्यादि । स च-प्रतिभास एवम्भूत एव-अनित्यादिरूप एव, नान्यथेति न नित्यादिरूप इति-एवं ऋते-विना अतीन्द्रियार्थदर्शितां अतिशयश्रद्धां वा विचारनिरपेक्षां न विनिश्चयोपायः। न तदेव-प्रत्यक्षं विनिश्चयोपायः । कुत इत्याह-सम्प्रमुग्धमूककल्पत्वात् तस्य । सम्प्रमुग्धो हि २० मूकः स्वप्रतिभासमपि न विनिश्चिनोतीति लौकिकमेतत् , अतोऽत्र न प्रत्यक्षमेव
प्रमाणमिति । अनुमानं तर्हि भविष्यतीत्याशङ्कानिरासायाह-नानुमानम्, अत्र प्रमाणमिति प्रक्रमः । कुत इत्याह-तथाविधलिङ्गासिद्धेः-स एवम्भूत एवेत्याद्यर्थाविनाभूतलिङ्गासिद्धेः । न चान्यत्, अत्र मानमिति प्रक्रमः । कुत इत्याह
अनभ्युपगमात् अन्यस्य मानस्य । अनित्यत्वादिरूपस्यैव वस्तुनि रूपादौ २५ विद्यमानत्वात् कारणात् । सः-तत्प्रतिभास एवम्भूतः-अनित्यादिरूप एव, नान्यथेति न नित्यादिरूपः । इति चेत्, एतदाशङ्कयाह-कुतस्तत्र-वस्तुनि अस्यैव-अनित्यत्वादिरूपस्यैव विद्यमानतासिद्विरिति-एतद् वाच्यम् । तत्तथेत्यादि । तस्मिन्-वस्तुनि तथा-अनित्यादिरूपतया प्रत्यक्षप्रतिभासःप्रत्यक्षाकारस्तत्तथाप्रत्यक्षप्रतिभासः तस्मादेवेति चेत् , तत्रास्यैव विद्यमानता३० सिद्धिरिति । एतदाशयाह-सोऽयमितरेतराश्रयदोषोऽनिवारितप्रसरः। तथाहि-अनित्यत्वादिरूपता वस्तुनः प्रत्यक्षप्रतिभासबलेन सोऽपि तथा वस्तुनोऽ१'तन्न निश्चयेन' इति क-पाठः। २ वा न विनि०' इति ध-पाठः । ३ 'स प्रतिभास' इति घ-पाठः ।