________________
अधिकारः]
स्योपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
२६७
विकल्पद्वारेणावस्थाभेद एवायुक्त इति चेत्, न, ततस्तदुभेदाभेदविकल्पाप्रवृत्तेः, अवस्थानामुत्प्रेक्षितत्वात् तथातत्त्वानामपि समचित्रनिनोन्नतसमारोपवत् तथासमारोपहेतुत्वाविरोधा, आन्तर- ५ दोषसामोत् तस्य चासद्दर्शनवासनारूपत्वात् , नित्यप्रमातुरपि तत्वभावत्वतोऽनित्यस्याभेदवासनावत् तथावासनोपपत्तेः । इति इतरत्राप्युक्तन्यायतुल्यत्वमिति ॥
किश्च 'यथादृष्टविशेषानुसरणं परित्यज्य' इत्यत्र 'तथादृष्टो नान्यथा' इत्यत्र न प्रमाणम् । प्रत्यक्षमेवान प्रमाणमिति चेत्, न तत् १०
(स्वो० व्या०) न्तरे डोङ्गरः। नित्यस्येत्यादि । नित्यस्य वस्तुनो भेदाभेदविकल्पद्वारेण, एतन्मुखेनेत्यर्थः, अवस्थाभेद एवायुक्तः-अघटमानकः । तथाहि-तास्ततो भेदेन वा स्युरभेदेन वा । 'भेदे अस्य ता इति का सम्बन्धः ? । अभेदेऽवस्थातैवासौ अवस्था वा इति नित्यस्यावस्थाभेदाभावः । इति चेत्, एतदाशयाह-नेत्यादि । १५ न-नैतदेवं ततः-नित्याद् वस्तुनः तद्भेदाभेदविकल्पाप्रवृत्तेः तासाम्अवस्थानां भेदाभेदविकल्पाप्रवृत्तेः । अप्रवृत्तिश्च अवस्थानामुत्प्रेक्षितत्वात् , अवस्तुत्वादित्यर्थः, तथातत्त्वानामपि-उत्प्रेक्षिततद्भावानामपि, अवस्थानामिति प्रक्रमः । समचित्रनिनोन्नतसमारोपवदिति निदर्शनम् । समचित्रे निनोन्नतसमारोप इति विग्रहः, तद्वत् । तथासमारोपः-भेदसमारोपस्तद्धेतुत्वा-२० विरोधः तथातत्त्वानामप्यवस्थानामिति । कुत इत्याह-आन्तरदोषसामर्थ्यात् कारणात् तस्य च-आन्तरदोषस्य असद्दर्शनवासनारूपत्वात् असद्दर्शनवासना-अनित्यादिदर्शनवासना तद्रूपत्वात् , नित्यप्रमातुरपि तत्वभावत्वतःअसद्दर्शनवासनास्वभावत्वेन अनित्यस्य प्रमातुरभेदवासनावदिति निदर्शनम् , 'तत्स्वभावत्वतः' इति योज्यते, तथावासनोपपत्तेः-भेदप्रकारेण वासनोपपत्तेः २५ इति-एवमितरत्रापि वस्त्वनित्यत्वादौ उक्तन्यायतुल्यत्वमिति निगमननिदर्शनमेतत् ॥
इहैव दूषणान्तरमाह किश्चेत्यादिना । किञ्च यथादृष्टविशेषानुसरणं परित्यज्येत्यत्र तथादृष्टोऽनित्यादिरूपत्वेन नान्यथा-न नित्यादिरूपत्वेन इत्यत्र
१ 'भेदे भेदस्य ताः' इति क-पाठः; ङ-पाठस्तु 'भेदे तस्य ता' इति । २ 'अभेदेनावस्थानवासौ' इति क-पाठः। ३ 'वस्तुनित्यस्वादौ' इति ङ-पाठः । ४ तन्नित्यादि' इति क-पाठः।