________________
२६६ अनेकान्तजयपताकाख्यं प्रकरणम्
[ तृतीयः (मूलम्) तत्प्रतिबन्धः, तेषामपि तद्भेदप्रसवाभ्युपगमात् , 'नान्येषाम् , तद्भेदप्रसवे सत्यपि' इत्याधुपन्यासात् । तद्भेदप्रसवश्वार्थभेदादुत्पादः । ५से चानित्यादिविकल्पानामिवामीषां तत इति तत् कथं न तेभ्यस्तनिश्चितिः ॥
ननूक्तम-'यथादृष्टविशेषानुसरणं परित्यज्य किञ्चित्सामान्यग्रहणेन विशेषान्तरसमारोपात्' इति उक्तमिदम् , अयुक्तं तूक्तम् , इतरत्राप्युक्तन्यायतुल्यत्वात् , 'अनित्यादिविकल्पानामपि नित्यादि१० रूपयथादृष्टविशेषनिश्चयपरित्यागेनावस्थाभेदग्रहणतो विशेषान्तरसमारोपेण प्रवृत्तेः' इत्यपि वक्तुं शक्यत्वात् । नित्यस्य भेदाभेद
(स्त्रो० व्या०) तत्प्रतिवन्धः-वस्तुप्रतिबन्धः, किन्तु प्रतिबन्ध एव । कुत इत्याह-तेषामपिनित्यादिविकल्पानां तद्भेदप्रसवाभ्युपगमात्-वस्तुभेदप्रसवाभ्युपगमात् । अभ्यु१५ पगमश्च 'नान्येषां तद्भेदप्रसवे सत्यपि इत्याद्युपन्यासात् प्राक् । तद्भेदप्रसवश्व कः ? । उच्यते-अर्थभेदादुत्पादः, स्वलक्षणादित्यर्थः । स चेत्यादि । स च अनित्यादिविकल्पानामिवामीषां-नित्यादिविकल्पानां तत इतिवस्तुनः तत्-तस्मात् कथं न तेभ्यः-नित्यादिविकल्पेभ्यः तनिश्चितिः-वस्तुनिश्चितिरिति ? ॥ २० आह-ननूक्तमत्र प्राक्-'यथादृष्टविशेषानुसरणं परित्यज्य किञ्चित्
सामान्यग्रहणेन विशेषान्तरसमारोपात्' न तेभ्यस्तनिश्चितिरिति । एतदाशङ्कयाह-उक्तमिदम् , अयुक्तं तूक्तम् । कथमित्याह-इतरत्रापि, प्रक्रमाद् वस्त्वनित्यत्वादौ, उक्तन्यायतुल्यत्वात् यथादृष्टविशेषानुसरणं परित्यज्येत्यादिः
उक्तो न्यायः, अस्य तुल्यत्वात् । तुल्यत्वमेवाह अनित्यादिविकल्पानामपी२५ त्यादिना। तत्र 'यथादृष्टविशेषानुसरणं परित्यज्य' इत्यादि भङ्ग्यन्तरेण अधिकृतपक्षविपक्षे योजयति-अनित्यादिविकल्पानामपीति । न केवलं नित्यादिविकल्पानाम् , नित्यादिरूपयथादृष्टविशेषनिश्चयपरित्यागेन नित्यादिरूपस्य यथादृष्टविशेषो नित्यादिरूप एव तन्निश्चयपरित्यागेन । परित्यागश्च अवस्थाभेदग्रहणत:
अवस्थाभेदग्रहणात् कारणाद् विशेषान्तरसमारोपेण-अभेदस मारोपेण प्रवृत्तेः ३० अनित्यादिविकल्पानामपि । इत्यपि-एवमपि वक्तुं शक्यत्वात्, नात्र जिह्वा
१ द्रष्टव्यं २५०तम पृष्ठम् । २ ‘स चेदनित्या.' इति ग-पाठः। ३ २५०तमे पृष्ठे । ४ २५० तमे पृष्ठे। ५ ‘स चेदित्यादि विकल्पाना.' इति ङ-पाठः । ६ २५० तमे पृष्ठे ।