________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २६५
(मूलम्) विप्लवरूपा सर्व एव विकल्पाः ' इति वचनमात्रमेव ॥
तत्प्रतिबद्धजन्मत्वासिद्धेश्च । तथाहि-कस्तेषां वस्तुना प्रतिबन्ध इति वाच्यम् । न तादात्म्यम्, तद्देशादिभेदात् अनभ्युपगमाच । न ५ तदुत्पत्तिः, तदसरूपत्वात् तदनन्तराभावाच। पारम्पर्येण तत्तदु. त्पत्तिरिति चेत्, न, विहितोत्तरत्वात् , तत्तद्भावेऽपि तन्निमित्तत्वाविशेषात्, नित्यादिविकल्पेभ्योऽपि तनिश्चितिसिद्धेः, वस्तुनस्तथात्वप्रसङ्गात्, अनेकान्तापत्तेरिति । न च न नित्यादिविकल्पानामपि
(स्वो० व्या०) इत्यपि वक्तुं शक्यत्वात् । इत्यनन्तरोदिता कल्पना प्रत्युक्तेति क्रियायोगः । इतिएवं खलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव विकल्पाः' इति वचनमात्रमेव, अभिप्रेतार्थशून्यत्वादिति गर्भः ॥ ___इहैवोपपत्त्यन्तरमाह-तत्प्रतिबद्धजन्मत्वासिद्धेश्च-वस्तुप्रतिबद्धजन्मत्वासिद्धेश्व, विकल्पानामिति प्रक्रमः । तथाहीत्युपप्रदर्शने। कस्तेषाम्-अधिकृत- १५ विकल्पानां वस्तुना सह प्रतिबन्ध इति वाच्यम् । न तादात्म्यं प्रतिबन्धः, तद्देशादिभेदात्-वस्तुदेशादिभेदात् । 'आदि'शब्दात् काल-स्वभावादिग्रहः । अनभ्युपगमाच्च । न हि परेणापि वस्तु-विकल्पयोस्तादात्म्यमभ्युपगम्यते । न तदुत्पत्तिः प्रतिबन्धः, विकल्पानां वस्तुना । कुत इत्याह तदसरूपत्वात्वस्त्वसरूपत्वाद् विकल्पानाम् । उपपत्त्यन्तरमाह-तदनन्तराभावाच्च-वस्त्वन- २० न्तराभावाच कारणादिति । पारम्पर्येण-स्खलक्षणज्ञानव्यवधानेन तत्तदुत्पत्तिः तस्मात्-वस्तुनो विकल्पोत्पत्तिः । इति चेत्,एतदाशङ्कयाह-न,विहितोत्तरत्वात् परदर्शने निमित्तान्तराभावेन विहितोत्तरमेतत् कथं वा निर्विकल्पकत्वेनाभिन्नाद् भिन्नविकल्पसम्भवः' इत्यादिना ग्रन्थेन । इतश्चैतन्न-तत्तद्भावेऽपि-वस्तुनो विकल्पभावेऽपि तन्निमित्तत्वाविशेषात्-वस्तुनिमित्तत्वाविशेषात् नित्यादिविकल्पे- २५ .. भ्योऽपि सकाशात् तनिश्चितिसिद्धेः-वस्तुनिश्चितिसिद्धेः कारणात् । किमित्याह-वस्तुनस्तथात्वप्रसङ्गात्-नित्यत्वादिप्रसङ्गात् अनेकान्तापत्तेरिति, न नैतदेवमिति क्रिया । न चेत्यादि । न च न नित्यादिविकल्पानामपि
१ 'तद्देश मेदात्' इति ग-पाठः । २ प्रेक्ष्यतां २४९तम पृष्ठं २५० तमं च। ३ 'धानजेन' इति घ-पाठः । ४ द्रष्टव्यं २५४तम पृष्ठम् । ५ 'इत्यादिप्रन्थेन' इति ऊ-पाठः।
अनेकान्त. ३४