________________
२६४
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः
(मूलम्) भिन्नविकल्पसम्भवाभावोऽपि न्यायतस्तदवस्थ एच, तदनुभव. स्थानेकशक्तिसहकारित्व विरोधात्, एकस्वभावत्वात् तस्य चानि५ त्याद्यन्यतमविकल्पशक्तिसहकारित्वतत्त्वात्, अन्यथा तदेकखभावत्वासिद्धेः, एकान्तकस्वभावत्वे च कथमस्य नित्यादि विकल्पशक्तिसहकारिभाव इति चिन्त्यम् । न हि नीलविज्ञानजन्मसहकारिखभावं नीलं कदाचिद् रसादिविज्ञानजन्मसहकारितां प्रतिपद्यते, तत्तत्वविरोधादिति ॥ • अनेन अनेकशक्तिसहकार्यकस्वभावत्वकल्पना प्रत्युक्ता, अनेकगर्भस्य तस्यैकत्वायोगात् ,अतिप्रसङ्गात् ,निबन्धनव्यवस्थाऽभावात्, विश्वस्यैकनिवन्धनतापत्तेः । इति खलक्षणदर्शनाहितवासनाकृत
(स्वो० व्या०) भिन्नविकल्पसम्भवाभावोऽपि निमित्तान्तराभावेन पूर्वोक्तो न्यायतः ५तदवस्थ एव । कुत इत्याह-तदनुभवस्य-प्रस्तुतखलक्षणानुभवस्य अनेक
शक्तिसहकारित्वविरोधात्। विरोधश्च एकखभावत्वात् । तस्य च-एकस्य स्वभावस्य अनित्याद्यन्यतमविकल्पशक्तिसहकारित्वतत्त्वात् सहकारित्वस्वभावत्वात् , अन्यथा-एवमनभ्युपगमे तदेकखभावत्वासिद्धेः, तस्य
अनुभवस्यैकखभावत्वासिद्धेः, चित्रशक्तिसहकारिभावेन । एकान्तैकखभावत्वे २० च कथमस्य-अनुभवस्य नित्यादिविकल्पशक्तिसहकारिभाव इति चिन्त्यम् । नैव अनित्यादिविकल्पशक्तिं विहाय सहकारिभाव इत्यर्थः । अमुमेवार्थ निदर्शनेनाह न हीत्यादिना । न यस्मान्नीलविज्ञानजन्मसहकारिखभावं नीलं कदाचिद् रसादिविज्ञानजन्मसहकारिता प्रतिपद्यते । किं न प्रतिपद्यत इत्याह-तत्तत्त्वविरोधात् तस्य-नीलस्य नीलविज्ञानजन्मसहकारिस्व२५ भावत्वं तत्त्वं तद्विरोधादिति ॥
अनेनानेकशक्तिसहकार्येकस्वभावत्वकल्पना प्रत्युक्ता। कथमित्याहअनेकगर्भस्य तस्य अधिकृतस्वभावस्य एकत्वायोगात् । अनेकगर्भश्चानेकशक्तिसहकार्येकस्वभाव इति परिभावनीयम् , योगेऽप्यतिप्रसङ्गात् सर्वस्य सर्वसहकारिकल्पनया। ततश्च निबन्धनव्यवस्थाऽभावात् 'नेदमस्य कारणम्' इति । व्य३० वस्थाभावे च विश्वस्यैकनिबन्धनतापत्तेः 'अनेककार्यकरणैकस्वभावत्वादेकस्य'
१ 'भावत्वाद् वा तस्य' इति क-पाठः । २ निबन्धनापत्तेः' इति क-पाठः। ३ द्रष्टव्यं २४९तमं पृष्ठं २५०तमं च । ४ 'पूर्वोक्तन्यायत०' इति क-पाठः ।