________________
२६३
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) चेत्, न, तत्स्वभावभेदमन्तरेणं तदसिद्धेः, तभेदे चानेकखभावताऽपराधः,अन्यथोभयोस्तुल्यतापत्तेः, तत्कार्ययोरपि तुल्यता, सामस्त्येनोभयजननखभावादुभयादुभयप्रसूतेः, तत्तथात्वकल्पना- ५ यास्तद्वैचित्र्यापादनेनायोगादिति प्रपश्चितमेतदन्यत्र, नेह प्रतन्यते। इति परमते सहकारार्थासिद्धेरशोभनस्तदुपन्यास इति परिचिन्त्यतामेतत् ॥
(खो० व्या०) तथाहि-रूपालोकादिसामग्यामेकत्र रूपमुपादानमालोकादयो निमित्तम् , अपरत्रा- १० लोकादय उपादानं रूपं निमित्तमिति सामग्रीभेदः । इति चेत्, एतदाशङ्कयाहनेत्यादि । न-नैतदेवम् । कुत इत्याह-तत्वभावभेदमन्तरेण तेषां-समग्राणां स्वभावभेदमन्तरेण तदसिद्धेः-सामग्रीभेदासिद्धेः । उक्तं च
"रूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत् तेनान्येन वा भवेत् ॥ यदि तेनैव विज्ञानं बोधरूपं न युज्यते ।
अथान्येन बलाद् रूपं द्विखभावं प्रसज्यते ॥५ इति । तद्भेदे च-स्वभावभेदे च समग्राणाम् अनेकस्वभावताऽपराधः महानयमेकान्तकस्वभाववादिनः । अन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे उभयोसमग्रयोरिति सामग्-युपलक्षणम् । किमित्याह-तुल्यतापत्तेः कारणात् तत्-२० कार्ययोरपि-रूपालोकादिरूपयोस्तुल्यता । कुत इत्याह-सामस्त्येनोभयजननखभावात् उभयात्-एकस्वभावात् समग्रोभयादुभयप्रसूते-उभयभावात् । तत्तथात्वेत्यादि । तस्य-अधिकृतस्वभावद्वयस्य तथात्वकल्पनाया:भिन्नजातीयोभयजननैकस्वभावत्वकल्पनायाः तद्वैचित्र्यापादनेन अधिकृतस्वभावद्वयवैचित्र्यापादनेन हेतुना अयोगात् । तथाहि--"नाचित्रात् स्वभावद्वयाचित्र-२५ द्वयभावः, भवन्नपि द्वयभावोऽचित्रादेकखभावतया तुल्य एव स्यात्" इति प्रपञ्चितमेतदन्यत्र-अनेकान्तसिद्धौ, नेह प्रतन्यते । इति-एँवं च परमते सहकारासिद्धेः कारणात् अशोभनस्तदुपन्यासः-सहकार्युपन्यास इति परिचिन्त्यतामेतत् ॥
१ 'गैतदसिद्धे०' इति ग-पाठः। २ 'वाऽनेक०' इति ग-पाठः । ३ 'तेन' इत्यधिकः कपाठः। ४-५ अनुष्टुप् । ६ 'भावोऽभवन्नपि' इति क-पाठः। ७ ‘एवं पर.' इति घ-पाठः । ८ 'इति-एवं चिन्यः ' इति क-पाटः।