________________
२६२ अनेकान्तजयपताकाख्यं प्रकरणम् ।
[तृतीयः (मूलम्) यत्किञ्चिदेतत् ॥
हेतुभेदात् फलभेद इति चापन्यायः। तथा च सत्ययमेव खलु भेदो ५ भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासः कारणभेदश्चेत्युक्तिमात्रम् , भावार्थशून्यत्वात् , सामग्न्ययोगात् समग्रेभ्यस्तद्भेदाभेदासिद्धेः, तत्त्वतः समग्रमात्रत्वात् । तदुपादानादिभेदेन तद्भेद इति
(स्वो० व्या०) जनितमित्यत्राह-अन्यतजनकत्वे च-अन्यस्यापि समग्रस्य तजनकत्वे-समग्रान्तर१० जन्यजनकत्वे चाभ्युपगम्यमाने । किमित्याह-कुतस्तत्स्वभाववैकल्यं-समग्रान्तरस्वभाववैकल्यम् ? नैव, तजन्यजनकत्वान्यथानुपपत्तेः । उक्तं च
"उत्पद्यते यदेकस्मादनशं नान्यतोऽपि तत् ।
समग्रभावे सामग्या नैकं कार्य सुनीतितः ॥" इति यत्किञ्चिदेतत्-'तत्स्वभावविकलस्तद्रपो न स्यान्नातत्कार्यः' इति ॥ ५ दोषान्तरमाह-हेतुभेदात् सकाशात् फलभेद इति चापन्यायः, तथा नैकैकभावेन । तथा च सति अयमेव खलु भेदो भेदहेतुर्वा भावानां यदुत विरुद्धधर्माध्यासो भेदः कारणभेदश्च-भेदहेतुरित्युक्तिमात्रम् । कुत इत्याह-भावार्थशून्यत्वात् । भावार्थशून्यत्वं च सामरज्ययोगात् ।
अयोगश्च समग्रेभ्यः सकाशात् तद्भेदाभेदासिद्धेः तस्याः-सामग्या भेदा२० भेदाभ्यामसिद्धेः तत्त्वतः-परमार्थतः-समग्रमात्रत्वात् सामग्या इति । तदुपादानादिभेदेन तेषां-समग्राणामुपादाननिमित्तभेदेन तद्भेदः-सामग्रीभेदः ।
(विवरणम्) . (१२-१३) उत्पद्यते यदेकस्मादनंशं नान्यतोऽपि तत् । .
समग्रभावे सामन्या, नैकं कार्य सुनीतितः ॥ २५ इति । उत्पद्यते यत्-ज्ञानादि कार्यमेकरमात्-समप्रात् । कीदृशभित्याह-अनंशंनिरंश न-नैवान्यतोऽपि-द्वितीयात् समग्रात् तत् । ततः किं सिद्धमित्याह-समग्रस्यपरिपूर्णस्य कार्यस्यैकस्मादपि समप्राद् भावे सति सामग्न्याः सकाशान्न-नैवैकं कार्य यावन्तः समग्रा जनकास्तावन्ति ज्ञानादिकार्याणि प्राप्नुवन्तीत्यर्थः । सुनीतितः, यतः स्वभावतो जातमेकं नान्यत् ततो भवेदित्यादि शोभनन्यायात् ।।
१'समग्रान्तरजनकत्वे' इति घ-पाठः । २ अनुष्टुप् । ३ प्रेक्ष्यतां २६०तम पृष्ठम् । ४ 'तथानेकैक.' इति घ-पाठः । ५ 'मसिद्धिः तत्त्वतः' इति क-पाठः। ६ 'तन्द्वेदः तत्सामग्री०' इति क-पाठः ।