________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
२६१
चेत्, न, तत्स्वभावविकलस्य तत्कार्यत्वविरोधात्, तज्जननैकस्वभावादेव ततस्तदुत्पत्तेः, अन्यतस्तदभावात्, तस्यापि तत्त्वेऽन्यत्वाभाव इति निरूप्यतां सम्यक्; अन्यथा कार्यैकत्वानुपपत्तिः, समग्र- ५ स्यैव तस्योत्पत्तेः, अनेकजन्यत्वे च तदयोगात्, सर्वेषां तज्जनकत्वात्, एकभाविनोऽपरभावासिद्धेः, तद्वैयर्थ्यप्रसङ्गात्, समग्रजनकत्वयेकस्यापि जनकत्वात्, अन्यथा समग्रजनकत्वविरोधात्, भेदशस्तद्भावापत्तेः, अन्यतज्जनकत्वे च कुतस्तत्स्वभाववैकल्यमिति
( स्वो० व्या० )
१०
तस्यापि तज्जननस्वभावत्वात् । इति चेत्, एतदाशङ्कयाह - नेत्यादि । न-नैतदेवम् । कुत इत्याह- तत्स्वभावविकलस्य - विवक्षितंसमग्रतथाविधकार्यजननसमर्थस्वभावविकलस्य, समग्रान्तरस्येति प्रक्रमः । किमित्याह तत्कार्यत्वविरोधात् समग्रान्तरकार्यत्वविरोधात् । विरोधश्च तज्जननैकखभावादेव - तथाविधकार्यजननैकस्वभावादेव ततः प्रथमसमग्रात् । तदुत्पत्तेः- तथाविधकार्योत्पत्तेरन्यतः - समग्रान्तरात् १५ तदभावात् - अन्योत्पन्नकार्याभावात् तत एवोत्पन्नं तदिति किमन्यस्मादुत्पादेन ? सोऽपि जननस्वभाव इत्येवं तज्जनयतीत्याशङ्कानिरासायाह - तस्यापि - अन्यस्य समग्रान्तरस्य तत्त्वे-तजननैकस्वभावत्वे । किमित्याह- अन्यत्वाभावः तत्स्वभावस्य तत्त्वादिति निरूप्यतां सम्यक् ; अन्यथा - एवमनभ्युपगमे किमित्याह - कार्यैकत्वानुपपत्तिः । कुत इत्याह- समग्रस्यैव - अखण्डस्यैव तस्य- कार्यस्य उत्प- १० त्तेः । यदि नामैवं ततः किमित्याह- अनेकजन्यत्वे च सति कार्यस्य तदयोगात्समग्रोत्पत्ययोगात् । अयोगश्च सर्वेषां समग्राणां तज्जनकत्वात्-विवक्षितैककार्यजनकत्वात् । किमेवं न समग्रोत्पत्तिरित्याह-एकभाविन इति एकस्माद् भवितुं शीलमस्येत्येकभावि कार्यं गृह्यते तस्य किमित्याह - अपरस्माद् भावोऽपरभावः, भवनं भाव उत्पादस्तदसिद्धेः । असिद्धिश्च तद्वैयर्थ्यप्रसङ्गात् - अपरवैयर्थ्यप्रसङ्गात् । नैको २५ जनकः समग्रा एव जनका इत्यसग्रहव्यपोहायाह- समग्रजनकत्वेऽपि सति । किमित्याह-एकस्यापि जनकत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथाएवमनभ्युपगमे समग्र जनकत्वविरोधात् नैकाद्यभावे सामग्यमिति भावनीयम् । यदि नामैवं ततः किमित्याह-भेदशः-भेदैः तद्भावापत्तेः - कार्यभावापत्तेः नं तत्रैकोऽप्यजनको न चांशजनक इति कृत्वा । अथान्योऽपि तदेव जनयति यदेकेन २०
१ 'असमप्रा०' इति ङ-पाठः ।
ܕ