________________
२६०
अनेकान्तजयपताकाख्यं प्रकरणम्
[ तृतीय (मूलम्) 'प्रथमपक्षे किमन्योन्यापेक्षया, एकत एव तत्सिद्धेः । द्वितीयपक्षे
चापेक्षायामपि तदसिद्धेः, प्रत्येकमतत्वभावत्वात् ॥ ५. तेषामत एव प्रत्येकत्वाभावात् अप्रत्येकत्वत एव तत्स्वभावस्वाददोष इति चेत्, न, अनेकतः सर्वथैकभवनासिद्धेः, तद्भिन्नखभावत्वात्, अन्यथाऽनेकत्वायोगात् । एवं चेतरेतरखभाववैकल्येन तत्रानुपयोगात्। तत्स्वभावविकलस्तद्रूपो न स्यान्नातत्कार्य इति
(स्वो० व्या०) १० उत्पन्नास्ते प्रत्येक तथाविधकार्यजननसमर्थस्वभावाः स्युः, न वा तथाविधकार्यजनन
समर्थस्वभावा इति द्वयी गतिः । तत्र प्रथमपक्षे-प्रत्येकं ते तथाविधकार्यजननसमर्थस्वभावा इत्यस्मिन् किमन्योन्यापेक्षया? एकत एव तथाविधकार्यजननसमर्थस्वभावात् समग्रात् तत्सिद्धेः-तथाविधकार्यसंसिद्धेः; अन्यथा तत्तत्स्वभावत्वानुपपत्तिरिति हृदयम् । द्वितीयपक्षे च-प्रत्येकं ते न तथाविधकार्यजननसमर्थस्व१५ भावा इत्यस्मिन् । किमित्याह-अपेक्षायामपि सत्यां तदसिद्धेः-विवक्षितकार्यासिद्धेः । असिद्धिश्च प्रत्येकमतत्स्वभावत्वात् समग्राणाम् । नहि प्रत्येकं तैलाजननखभावाःसिकताऽणवः परस्परापेक्षयाऽपि तैलं जनयन्ति,तदतत्स्वभावत्वविरोधादिति ॥
तेषामित्यादि । तेषां-समग्रोत्पन्नानां समग्राणाम् । किमित्याह-अत एव हेतोः-प्रत्येकत्वाभावात् कारणात् अप्रत्येकत्वत एव, अप्रत्येकत्वेनैव समग्र२० तयेत्यर्थः, तत्वभावत्वात्-तथाविधकार्यजननसमर्थस्वभावत्वात् अदोषः
इति चेत् अनन्तरविकल्पयुगलकोपनीतः । एतदाशङ्कयाह-न, अनेकेत्यादिना । न-नैतदेवम् । कुत इत्याह-अनेकता-अनेकेभ्यः समग्रेभ्यः सर्वथैकभवनासिद्धेः, निरंशभवनासिद्धेरित्यर्थः । असिद्धिश्च तद्भिन्नस्वभावत्वात् तेषाम्
अनेकेषां भिन्नस्वभावत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमन२५ भ्युपगमे अभिन्नखभावत्वादनेकत्वायोगात् । एवं चेत्यादि । एवं च
अनेकत्वे सति इतरेतरस्वभाववैकल्येन-न य एवैकस्य स्वभावः स एवापरस्य, तदभेदप्रसङ्गादिति इतरेतरस्वभाववैकल्यं तेन, तत्र-सर्वथैकभवनेऽनुपयोगात् नानैकतः सर्वथैकभवनमिति । तत्स्वभावविकल: तस्य-विवक्षितस्य कस्यचित् तथाविधकार्यजननसमर्थस्य समग्रस्य स्वभावस्तत्स्वभावः तेन विकलः-रहितोऽपरः समग्र ३० एव तत्स्वभावविकलः सः, तद्रूपः-अधिकृतसमग्रान्तररूपो न स्यात्-न भवेत् तवैकल्येन, नातत्कार्यः-न समग्रान्तराकार्यः, किन्तु तत्कार्य एव, समग्रान्तरवत् , १ 'समग्रेतररूपो' इति क-पाठः।