________________
अधिकारः ] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) एतेन 'पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्य क्रियालक्षणो'ऽपि सहकारार्थों निषिद्धः, तत्त्वतः प्रथमसहकारार्थाविशेषात्, 'खहेतुपरम्परात एव सा शक्तिस्तथाखभावोत्पन्ना' इत्यादिना तु सुतरामभेदात्, ५ प्रत्येकं तत्तथाविधकार्यजननसमर्थस्वभावेतरविकल्पदोषापत्तेश्च
(स्वो० व्या०) ___ एतेनेत्यादि । एतेन-अनन्तरोदितेन पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रियालक्षणोऽपि सहकारार्थः प्राङ्गिदर्शितखरूपो निषिद्धः । कुत इत्याहतत्त्वतः-परमार्थेन प्रथमसहकारार्थाविशेषात् । अस्य सहकारार्थस्य 'परस्परा- १० तिशयाधानेन सन्ताने विशिष्टक्षणोत्पादनलक्षणः' प्रथमः, तदयमपि 'पूर्वस्वहेतोरेव समग्रोत्पन्नेककार्यक्रियालक्षणः' सदा सन्तानापेक्षया एवम्भूत एव, तस्य तस्य कार्यस्य विशिष्टक्षणोत्पादनलक्षणत्वादिति भावनीयम् । 'स्वहेतुपरम्परात एव सा शक्तिस्तथाखभावोत्पन्ना' इत्यादिना तु अनन्तरोदितग्रन्थेन सुतरामभेदात् , द्वयोरपि सहकारार्थयोः फलाभेदादिति गर्भः ॥
दोषान्तरमाह प्रत्येकमित्यादिना । प्रत्येकम्-एकमेकं प्रति तेषां समग्रोत्पन्नानां तथाविधं-विशिष्टं यद् विवक्षितं विज्ञानादि कार्य तजननसमर्थखभावश्च इतरश्च-अतजननसमर्थस्वभावश्चेति "विकल्पो आभ्यां दोषास्तदापत्तेश्च कारणाद् 'द्वितीयोऽपि सहकारार्थो निषिद्धः' इति क्रिया । एतदुक्तं भवति-'पूर्वस्वहेतोव समग्रोत्पन्नैककार्यक्रियालक्षणो' द्वितीयः सहकारार्थः । तत्र च ये समग्रा २०
(विवरणम्) (१२) सदा सन्तानापेक्षया एवम्भूत एवेति । एवंविधा हि रूपादयः क्षणाः पाश्चात्यपाश्चात्यतमैरुपादानसहकारार्थक्षणैर्जनिता येन ते विशिष्टज्ञानोत्पादकान् क्षणान् पर्यन्ते जनयन्तीति । एतदेवाह-(१२-१३) तस्य तस्य कार्यस्य विशिष्टक्षणोत्पादनलक्षणत्वादिति । तस्य तस्य-पाश्चात्यपाश्चात्यतरादेः कार्यस्य रूपादिक्षणलक्षणस्य किमि- २५ त्याह-विशिष्टक्षणोत्पादनलक्षणत्वात्-अग्रेतनातनप्रतिनियतक्षणजननस्वभावत्वात् अग्रेतनाग्रेतनप्रतिनियतक्षणैर्हि स्वजनकक्षणापेक्षया कार्यरूपैः सद्भिरतनाग्रेतनक्षणा विशिष्टा एव जन्यन्ते वैशिष्ट्यं च सहकारिसव्यपेक्षमेव, अतो विशेषाभाव एवं द्वयोरपि सहकारार्थयोः, उभयत्रापि सहकारिकृतविशेषस्य विद्यमानत्वात् ।।
१ प्रेश्यतां २५५तम पृष्ठं २५६तमं च । २ ईश्यता २५७तमं पृष्ठम् । ३ दृश्यतां २५५तम पृष्ठम् । ४ 'महासन्ताना०' इति ङ-पाठः। ५'क्षणोत्पादजलक्षण.' इति घ-पाठः। ६ अवलोक्यता २५७ तमं पृष्टम् । ७ 'विकल्पाभ्यां दोषा.' इति घ-पाठः। ८ 'तत्र ये' इति घ-पाठः । ९ 'महासन्ताना' इति च-पाठः । १. 'सहकारिक्षणैः' इति ख-पाठः। ११ 'भावत्वात् पाश्चात्यपाश्चात्यक्षणैर्हि वजनक.' इति ख-पाठः। १२ 'क्षणारशिष्टा' इति क-पाठः। १३ 'उभयत्रापि सहकारार्थयोः उभयत्रापि सहकारि' इति ख-पाठः ।