________________
२५८
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः
कल्पनागर्भवाझावोदितखभावविषयत्वे तु तत्त्वव्यवस्थानुपपत्तिः, अतथाविधस्वभावानामपि तथाविधस्वभावत्वाभिधानाविरोधात् । ५एवं च सहेतुकनाशापत्तिः, 'स्वहेतुपरम्परातस्तथास्वभाव एवासाचुत्पन्नो भावो योऽकिश्चित्करमपि नाशहेतुमपेक्ष्य नश्यति' इत्यपि वक्तुं शक्यत्वात्, खभावपर्यनुयोगासिद्धेः, अचिन्त्यशक्तित्वात्, अन्यथा त्वत्पक्षेऽपि तुल्यत्वादिति ॥
नापि निरुद्धायाः, तस्या एवासत्त्वात् असतश्चोपकाराकरणात् । १० नं च प्रकारान्तरेणोपकारकरणं सम्भवति । एवं तावदाद्यपक्षे सहकारार्थाभाव इति ॥
(स्वो० व्या०) किमित्याह-प्रमाणोपपन्नस्वभावविषयत्वात्, प्रतीतिसचिवस्वभावविषयत्वादित्यर्थः । स्वपरिकल्पनागर्भश्चासौ वाङ्मावोदितस्वभावश्चेति समासः । स एव विषयो १९ यस्य स्वभावापर्यनुयोगस्य स स्वपरिकल्पनागर्भवाङ्मात्रोदितखभावविषयः तस्य भावस्तस्मिन् । पुनरस्याभ्युपगम्यमाने किमित्याह-तत्वव्यवस्थानुपपत्तिः। कुत इत्याह-अतथाविधस्वभावानामपि भावानां तथाविधखभावत्वाभिधानाविरोधात् । ततः किमित्याह-एवं च सहेतुकनाशापत्तिः । कथमित्याह-स्वहेतुपरम्परातः सकाशात् । तथास्वभाव एवासा२० वुत्पन्नो भावा-पदार्थों योऽकिश्चित्करमपि नाशहेतुमपेक्ष्य नश्यतीत्यपि वक्तुं शक्यत्वात् तथाखभावपर्यनुयोगासिद्धेः उक्तनीत्या । असिद्धिश्च अचिन्त्यशक्तित्वात् स्वभावस्य । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा त्वत्पक्षेऽपि-खहेतुपरम्परात एव सा शक्तिस्तथास्वभावोत्पन्ना' इत्यस्मिन्नपि तुल्यस्वात् पर्यनुयोगस्य । इति सर्वत्र 'न, अनुपकारिणोऽपेक्षायोगात्' इत्यतो यथायोगं २५ 'न' इति क्रिया योजनीया ॥
नापि निरुद्धायाः, शक्तेरुपकरोति तदनुभवः इति प्रक्रमः । कुत इत्याह-तस्या एव-निरुद्धायाः शक्तेः असत्त्वात् , असतश्व-तुच्छस्य च उपकाराकरणात् । न चेत्यादि । न च प्रकारान्तरेण-उक्तप्रकारत्रयातिरिक्तेन उपकारकरणं सम्भवति, वस्तुतस्तस्यैवाभावात् । एवं तावदाद्यपक्षे उप३० न्यासक्रमप्राधान्यात् परस्परातिशयाधानेन सन्ताने विशिष्टक्षणोत्पादनलक्षणः' इत्यस्मिन् सहकारार्थीभाव इति ॥ १ 'न वःप्रकारा०' इति ग-पाठः। २-३ समीक्ष्यतां २५७तम पृष्ठम् । ४ प्रेक्ष्यतां २५५तम पृष्ठम् ।