________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
२५५
एव भवता तस्या अतिशयाधानम् , तनिवन्धनस्य तत्कृतविशेषासिद्धेः। तदभ्युपगमे च तत्राप्ययमेव वृत्तान्तः। एवं निबन्धनपरम्परायामपि वाच्यमित्यत्राणं निबन्धनपरम्परा ॥ __ खहेतुपरम्परात एव सा शक्तिस्तथाखभावोत्पन्ना याऽनुपकारिणमपि तदनुभवं सहकारिणमपेक्ष्य विशिष्टं कार्य जनयति, अतो न दोष इति चेत्, न, अनुपकारिणोऽपेक्षाऽयोगात्, तदभ्युपगमेऽतिप्रसङ्गात् , तत्तथाविधस्वभावाधायकहेतोरप्यस्थानपक्षपातित्वापत्तेः, खभावापर्यनुयोगस्य च प्रमाणोपपन्नस्वभावविषयत्वात् । खपरि-१०
(स्वो० व्या०) भाविना-शक्त्या सहानुभवेन अन्यतो भवन्त्याः शक्तः अन्यत एव स्वहेतोः भवताउनुभवेन तस्याः-शक्तेरतिशयाधानम् ,न्याय्यमिति शेषः । कुत इत्याहतन्निबन्धनस्य-अधिकृतशक्त्युपादानस्य तत्कृतविशेषासिद्धेः-विवक्षितानुभवकृतविशेषासिद्धेः । तदभ्युपगमे च-सामान्येन तन्निबन्धनस्य तत्कृतविशेषा-१५ भ्युपगमे च तत्रापि-तन्निबन्धनेऽयमेव-अनन्तरोदितो 'न, उपादानकारणविशेषाधानमन्तरेण ततः कार्यविशेषासिद्धेः' इत्यादिवृत्तान्तः। एवम्-उक्तनीत्या निबन्धनपरम्परायामपि वाच्यमिति-एवमत्राणं निबन्धनपरम्परा अनादावपि संसारे एकस्यापि निबन्धनस्योक्तनीत्या विशेषाधानायोगादिति भावनीयम् ।।
खहेत्वित्यादि । स्वहेतुपरम्परात एव सा शक्ति:-अधिकृता तथा- २० खभावोत्पन्ना या अनुपकारिणमपि तदनुभवम्-अधिकृतस्खलक्षणानुभवं सहकारिणमपेक्ष्य विशिष्टं कार्यं जनयति अधिकृतविकल्पाख्यम् , अतो न दोष इति चेदधिकृतः। एतदाशङ्कयाह-न, अनुपकारिणः तदनुभवस्य । किमित्याह-अपेक्षाऽयोगात्।तदभ्युपगमे-अनुपकारिणोऽपेक्षाऽभ्युपगमेऽतिप्रसङ्गात् , तद्वद् विश्वापेक्षापत्तेः । तत्तथाविधेत्यादि । तस्याः-शक्तेस्तथाविधव- २५ भावाधायकः अनुपकारिणमपि तदनुभवं सहकारिणमपेक्ष्य विशिष्टं कार्यं जनयति इत्येवंविधस्वभावाधायकश्वासौ हेतुश्चेति समासः, तस्य अपि । किमित्याह-अस्थानपक्षपातित्वापत्तेः नेति क्रियायोगः । उक्तं च
"अस्थानपक्षपातश्च हेतोरनुपकारिणि ।
अपेक्षायां नियुङ्क्ते यत् कार्यमन्याविशेषतः ॥ इत्यादि । स्वभावापर्यनुयोगस्य च 'न स्वभावः पर्यनुयोगमर्हति' इत्यस्य ।
प्रेक्ष्यता २५६तम पृष्ठम् । २ 'संसारे कस्यापि' इति घ-पाठः। ३ 'अपेक्षा यान्ति युक्ते' इति क-पाठः । ४ अनुष्टुप् ।
अनेकान्त०३३