________________
२५६
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) लक्षणश्च । न चानयोरेकोऽपि सम्भवति, क्षणिकत्वेन परस्पराति
शयाधानायोगात् । अतिशय उपकार इत्यनान्तरम् । न चासा५वन्यतोऽन्यस्य, विकल्पायोगात् ।।
तदनुभवो हि तच्छक्तेरनुत्पन्नाया उत्पन्नाया निरुद्धाया एव वोपकुर्यात् । न तावदनुत्पन्नायाः, तस्या एवासत्त्वात्, असतश्चोपकाराकरणात् । नाप्युत्पन्नाया, तस्या अनाधेयातिशयत्वात्, क्षणादूर्ध्वमनवस्थितेः। द्वाभ्यामप्येकीभूय तदन्यकरणमेवातिशयाधानं १० तदेव चोपकार इति चेत्, न, उपादानकारणविशेषाधानमन्तरेण ततः कार्यविशेषासिद्धेः। न चैककालभाविनाऽन्यतो भवन्त्या अन्यत
(स्वो० व्या०) कार्ययोग्यताकारीत्यर्थः, तथा पूर्वस्वहेतोरेव उपादानादेः समग्रोत्पनैककार्यक्रियालक्षणश्च समग्रोत्पन्नानामेककार्यक्रियाऽन्त्यानां विवक्षितकार्योत्पत्तिः सैव ५ लक्षणं यस्य सहकारार्थस्य स तथेति समासः । न चेत्यादि । न च अनयो:-सहकारार्थयोरेकोऽपि सम्भवति। कुत इत्याह-क्षणिकत्वेन हेतुना परस्परातिशयाधानायोगात्। एतदेव भावयति अतिशय उपकार इत्यनर्थान्तरम् । न चासौ-अतिशयः अन्यतः सकाशादन्यस्य । कथं नेत्याह-विकल्पायोगात्॥ - एनमेवाह तदनुभवो हीत्यादिना । तदनुभवः-अधिकृतस्वलक्षणानुभवः २० यस्मात् तच्छक्तेः--अनादिमदालयगतशक्तेः अनुत्पन्नाया उत्पन्नाया निरु
द्धाया एव वोपकुर्यादिति सम्भविनो विकल्पाः । न तावदनुत्पन्नाया उपकरोति तदनुभवः । कुत इत्याह-तस्या एव शक्तेरसत्वात् । न चासावनुत्पन्ना अस्ति । यदि नामैवं ततः किमित्याह-असतश्च सामान्येन उपकाराकरणात् ॥
नाप्युत्पन्नाया उपकरोति तदनुभवः । कुत इत्याह-तस्याः-उत्पन्नाया २५ निष्पन्नत्वेन अनाधेयातिशयत्वात् । एतच क्षणादूर्वमनवस्थितेः कारणात् । द्वाभ्यामपि-शक्त्यनुभवाभ्यामेकीभूय तदन्यकरणमेव-विशिष्टशक्तिकरणमेव-अतिशयाधानं तदेव चान्यकरणं उपकारः। इति चेत्, एतदाशङ्याह-नेत्यादि । न-नैतदेवम् । कुत इति युक्तिमाह-उपादानकारणविशेषाघानमन्तरेण-इह तावदधिकृतशक्तिविशेषाधानं विना ततः-विवक्षितानुभवात् ३० कार्यविशेषासिद्धेः, प्रस्तुतविकल्पकार्यभेदासिद्धेरित्यर्थः । न च एककाल
१ 'तत्तच्छक्तेः' इति क-पाठः । २ 'यस्माच्छक्तेरनादि०' इति घ-पाठः । ३ 'नासाव.' इति
क-पाठः।