________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) तदनुभवं प्राप्याक्षेपेण तथाविधविकल्पजननवभावोपजायते इति खलक्षणदर्शनाहितेत्युच्यते, अत एव न भिन्नविकल्पसम्भवाभावः, तथाविधशक्तिसहकारित्वेन तदनुभवस्य तदविरोधादिति । ५ एतदपि यत्किञ्चित्, तस्य तत्सहकारित्वासिद्धेः ततस्तस्या उपकाराभावात्, अनुपकार्योपकारकयोश्च सहकारित्वायोगात् । द्विविधो हि वा सहकारार्थः परस्परातिशयाधानेन सन्ताने विशिष्टक्षणोत्पादनलक्षणः, पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रिया
(स्वो० व्या०) शक्तिश्चेति विग्रहः, तस्याः, स्वलक्षणदर्शनसहकारिभावतः, प्रवृत्तिविज्ञानसहकारिभावत इत्यर्थः, विशेषकरणम्-अतिशयकरणं सा । एतदेव भावयति तथाहीत्यादिना । तथाहि-सा-अनादिमदालयगतशक्तिः तदनुभवं प्राप्यखलक्षणदर्शनमासाद्य अक्षेपेण-अव्यवधानेन तथाविधविकल्पजननवभावा -अनित्यादिविकल्पजननस्वभावा उपजायत इति कृत्वा स्खलक्षणदर्शना-५ हितेत्युच्यते, अत एव कारणात् न भिन्नविकल्पसम्भवाभावः । किं तर्हि ? सम्भव एव । कुत इत्याह-तथाविधशक्तिसहकारित्वेन हेतुना तदनुभवस्य-स्खलक्षणानुभवस्य, प्रवृत्तिविज्ञानस्येत्यर्थः, तदविरोधादिति, प्रक्रमाद् भिन्नविकल्पसम्भवाविरोधात्, शक्तिरस्योपादानमित्यभिप्राय इति । एतदाशक्याह-एतदपि यत्किञ्चित् । कथमित्याह-तस्य-स्खलक्षणानुभवस्य तत्-२० सहकारित्वासिद्धेः-प्रस्तुतशक्तिसहकारित्वासिद्धेः। असिद्धिश्च ततः-अधिकृतानुभवात् तस्याः-शक्तेः, किमित्याह-उपकाराभावात् । यदि नामैवं ततः किमित्याह-अनुपकार्योपकारकयोश्च भावयोः सहकारित्वायोगात् । एनमेवाहद्विविधो हि वा-युष्माकं सहकारार्थः। द्वैविध्यमाह-परस्परातिशयाधानेन क्षणपरम्परया सन्ताने-प्रबन्धे विशिष्टक्षणोत्पादनलक्षणः, विवक्षित-२५
(विवरणम् ) (११-१२) प्रवृत्तिविज्ञानसहकारिभावत इति । प्रवृत्तिविज्ञानस्य-घटादिपदार्थगोचरप्रवृत्तिकारफनिर्विकल्पज्ञानलक्षणस्य यः सहकारिभावोऽनादिमदालयगतशक्तिं प्रतीत्य तस्मात् ।। . (२४) द्विविधो हि वा-युष्माकं सहकारार्थ इति । प्रथमोऽङ्कुरोत्पादकक्षिति-३० बीजादीनाम् , द्वितीयस्तु विज्ञानजनकरूपादीनाम् ।। १ ‘प्राप्योत्क्षेपेण' इति ग-पाठः । २ 'पूर्वपूर्वखहेतो.' इति क-पाठः ।