________________
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः
(मूलम्) एव तथाभूता विकल्प इति चेत्, किम्भूतेति चिन्त्यम् । असदाकारेति चेत्, अस्खलक्षणमेवेयम् , असदाकारत्वात्। न खसंवित्ति५स्तत्रास्खलक्षणम्, अपि तु बहिर्मुखावभास एवेति चेत्, न खलु सा ततोऽन्या' इति समानं पूर्वेणेति यदि मानसं कथं स्खलक्षणादखलक्षणजन्म साधीय इति ? । कथं वा निर्विकल्पकत्वेनाभिन्नाद भिन्नविकल्पसम्भवः ? । न हि नीलादिमात्रात् कचिद् रसादि
भावः, तथाऽदर्शनात् । न चात्र किश्चिद् भेदकम् , अनभ्युपगमात्, १० अभ्युपगमेऽपि ततोऽतिशयासिद्धेरिति निवेदयिष्यामः॥
अथान्यैव काचित् । कासाविति वाच्यम् । अनादिमदालयगतशक्तेः स्वलक्षणदर्शनसहकारिभावतो विशेषकरणम् । तथाहि-सा
(खो० व्या०) चेतनैव तथाभूता विशिष्टा विकल्पः । इति चेत्, एतदाशक्याह-किम्भूता १५ तथाभूता इति चिन्त्यम् । असदाकारा असन्नाकारो यस्याः सा तथा । इति चेत्, एतदाशयाह-अखलक्षणमेवेयं-चेतना, असदाकारत्वात्। न खसंवित्तिस्तत्र-चेतनायां अखलक्षणम् , अपि तु बहिर्मुखावभास एव अस्खलक्षणम् । इति चेत्, एतदाशयाह-न खलु-नैव सा-चेतना स्वसंवित्तिः ततः-बहिर्मुखावभौसादन्येति समानं पूर्वेण-'कथं नास्खलक्षण मित्यादिनोक्तेन । २० इति एवं यदि मानसं कथं खलक्षणादवलक्षणजन्म साधीयः-शोभनतरम् ? नैवेत्यर्थः । कथं वेत्यादि । कथं वा निर्विकल्पकत्वेनाभिन्नाद मानसाद भिन्नविकल्पसम्भवो विकल्पकत्वेन ? । कथं च न स्यादित्याह-न हि नीलादिमात्राद् वस्तुनोऽन्यरहितात् कचिद् रसादिभावः। 'आदि'शब्दाद
गन्धादिग्रहः । कथं न रसादिभाव इत्याह-तथाऽदर्शनात् । न चात्र-मानसाद् २५ विकल्पजन्मनि किञ्चिद् भेदकमस्ति । कुत इत्याह-अनभ्युपगमात् ।
अभ्युपगमेऽपि सति भेदकस्य वासनादेः ततः-भेदकात् अतिशयासिद्धेरिति निवेदयिष्याम ऊर्ध्वम् । गतो मानसपक्षः ॥
द्वितीयं विकल्पमधिकृत्याह-अथान्यैव काचित् तथाविधविकल्पजननशक्तिः । एतदुररीकृत्याह-कासाविति वाच्यम् । अनादिमती चासौ आलयगत
: १ प्रेक्ष्यता २५२तम पृष्ठम् । २ 'भासादन्येऽमिसमान' इति क-पाठः। ३ प्रेक्ष्यतां २५२तमं पृष्टम् । ४'मनभ्युप०' इति क-पाठः।