________________
अधिकारः]
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
२५३
चिन्त्यम् । असदाकारानुवेधादिति चेत्, कथमसताऽनुवेधो नाम ? । स निर्विषयत्वादसन् , न तु तथाप्रतिभासनेनेति चेत्, न स्वसंवित्तिस्तथाप्रतिभासनादन्येत्यस्खलक्षणत्वमेव ॥ .
तस्य विभ्रमरूपत्वात् तदन्या-ऽनन्यत्वकल्पनैवायुक्तेति चेत्, कोऽयं विभ्रम इति कथनीयम् । अनिरूप्यखरूपस्तत्त्वतोऽसद्रूप इति चेत्, कथमयं स्वसंवित्तिभेदक इति वाच्यम् । न तत्त्वत इति चेत्, उच्छिन्नो विकल्पः । अस्त्विति चेत्, प्रतीत्यादिबाधा। चेतना (स्वो० व्या०)
१० शल्याह-कथमसौ-स्वसंवित्तिस्तन्मात्रतत्त्वा-स्वसवित्तिमात्रतद्भावा विकल्प इति चिन्त्यम् । न तत्र स्खलक्षणातिरिक्तोऽश इति कृत्वा । असदाकारानुवेधादसौ विकल्पः । इति चेत्, एतदाशझ्याह-कथमसता आकारेण अनुवेधो नाम स्वसंविदः १ नैवेत्यर्थः । सः-आकारः निर्विषयत्वात् कारणात् असन्तुच्छः, न तु तथाप्रतिभासनेन-न पुनर्बहिर्मुखावभासप्रतिभासनेनासन् । इति ५ चेत्, एतदाशङ्कयाह-न खसंवित्तिरधिकृता तथाप्रतिभासनात्-बहिर्मुखावभासप्रतिभासनादन्या अर्थान्तरभूता इति कृत्वा अस्खलक्षणत्वमेव स्वसंविदः॥
तस्य-बहिर्मुखावभासप्रतिभासस्य विभ्रमरूपत्वात् कारणात् तदन्यानन्यस्वकल्पनैव तया-स्वसंवित्त्याऽन्यानन्यत्वकल्पनैव अयुक्ता। इति चेत्, एतदाशङ्कयाह-कोऽयं विभ्रमो यद्रूपत्वादन्यानन्यत्वकल्पनाऽयोग इति कथनीयम् । २० अनिरूप्यं खरूपं यस्य वैतथ्येन स तथा तत्त्वतः-परमार्थतोऽसद्रूपः । इति चेत्, एतदाशझ्याह-कथमयं-विम्रमोऽसद्रूपः सन् स्वसंवित्तिभेदक इति- एतद् वाच्यम् । न तत्त्वत इति चेत्, स्वसंवित्तिभेदकः । एतदाशक्याहउच्छिन्नो विकल्पः अविशिष्टस्वसंवित्तिमात्रभावेन । अस्त्विति चेत् विकल्पाभावः । एतदाशङ्कयाह-प्रतीत्यादिवाधा, 'आदि'शब्दाद् भावेतरभेदबाधाग्रहः । २५
(विवरणम्) (११) स्वसंवित्तिमात्रतद्भावा इति । स्वसंवित्तिमात्रमेव तद्भाव:-तत्त्वभावः . स्वरूपं यस्या इति ॥ __ (२५) भावेतरभेदबाधाग्रह इति । इदमत्रास्तीदं तु नास्ति इत्येवंरूपो यो भावेतराभ्यां-भावाभावाभ्यां भेदाभेदव्यवहारो विकल्पात्मकस्तस्य बाधा-बाधनं ३० तस्या ग्रहः । इदमुक्तं भवति-प्रवृत्तेऽपि निर्विकल्पज्ञाने इमत्रास्तीदं तु नास्तीति व्यवहारो विकल्पेनैव वर्तते, तदपलापे तु कथमयं स्यादिति ॥
१ 'उत्सनो विकल्पः' इति घ-पाठः । २ 'उत्सनो' इति घ-पाठः, ड-पाठस्तु 'उच्छन्नो' इति । ३ 'तत्र भावः' इति च-पाठः ।