Book Title: Anekantajay patakakhyam Prakaranam Part 1
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 311
________________ २७६ अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीयः (मूलम् ) 'विन्ध्य'-'हिमवदा'दीनामेकत्रावस्थानप्रसङ्गा, निष्पदेशैकाकाशसं. योगान्यथानुपपत्तेः। अथान्येन, आयातं तर्हि सदेशत्वमाकाशस्य ॥ ५ स्यादेतददेशत्वाद् वियतो यथोक्तविकल्पासम्भवः, तत्रैकस्मिन्नेव तेषामवस्थितत्वात् । इदमप्ययुक्तम् , वस्तुतः पूर्वोक्तदोषानतिवृत्तेः। न च सर्वव्यापिनो 'विन्ध्या'दय इति, येन 'तस्मिन्नेव तेषामवस्थित. त्वात्' इति सफलं भवेदित्यतो यत्र 'विन्ध्य भावो यत्र चाभाव इत्यनयोन भोभागयोरनन्यत्वमन्यत्वं वेति वाच्यम्। किश्चातः । यद्यन० न्यत्वं किमु सर्वथा आहोखित् कथञ्चित् ?। यदि सर्वथा हन्त तर्हि यत्र 'विन्ध्य भावस्तनाप्यभावः स्यात्, तदभाववनभोभागाव्यतिरिक्तत्वात् तदभाववन्नभोभागस्य विपर्ययो वा। अथ कथञ्चिदने. (खो० व्या०) किञ्चातः? उभयथाऽपि दोष इत्याह-यदि तेनैव ततो 'विन्ध्य'-'हिमवदा'दीनां १५ पर्वतानामेकत्र देशेऽवस्थानप्रसङ्गः । कुत इत्याह-निष्प्रदेशं च तदेकाकाशं च तेन संयोगस्तदन्यथाऽनुपपत्तेरिति । अथान्येन एतदाशङ्कयाह-आयातं तर्हि संदेशत्वमाकाशस्य, तथाऽभ्युपगमात् ॥ स्यादेतत् अदेशत्वाद् वियतः-आकाशस्य यथोक्तविकल्पासम्भवः, तत्र-वियत्येकस्मिन्नेव निष्प्रदेशे तेषां-'विन्ध्या'दीनामवस्थितत्वात्। एतदा२० शझ्याह-इदमप्ययुक्तम्, वस्तुत:-परमार्थतः पूर्वोक्तदोषानतिवृत्तेः-- 'विन्ध्य'-'हिमवदा'दीनामेकत्रावस्थानादिप्रसङ्गः पूर्वोक्तो दोषस्तदनतिवृत्तेः । एनमेव प्रकारान्तरेण समर्थयन्नाह-न च सर्वव्यापिनो "विन्ध्या 'दय इति येन 'तस्मिन्-एकस्मिन्नेव तेषामवस्थितत्वात्' इति सफलं भवेत् , अतो यत्रेति देशे "विन्ध्यभावो यत्र चाभाव इत्यनयोर्नभोभागयो:-आकाशदेशयोः २५ किमित्याह-अनन्यत्वमन्यत्वं वेति वाच्यम् । किश्चातः ? यद्यनन्यत्वं किं सर्वथा आहोखित् कथञ्चित् ? । यदि सर्वथा अनन्यत्वं हन्त तर्हि यत्र 'विन्ध्यभावस्तत्राप्यभावः स्यात् । कुत इत्याह-तदभाववनभोभागाव्यतिरिक्तत्वात्-'विन्ध्या भाववन्नभोभागाव्यतिरिक्तत्वात् । तदुभाववनभोभागस्य-विन्ध्य भाववन्नभोभागस्य, विपर्ययो वा, यत्राभावस्तत्रापि ३० भावप्राप्तेः । अथ कथञ्चिदनन्यत्वम् । एतदाशङ्कयाह-अनेकान्तवादाभ्युप १ 'सप्रदेश.' इति क-घ-पाठः ।

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453