Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ अनुसन्धान ४३ ॥१५॥ ॥१६॥ इह प्ररोहत्पुरुषार्थपल्लवा प्रायः प्रवृत्तिर्मतिशालिनां मता । परापरत्वव्यतिभिन्नवैभवं द्विधा च सन्तः पुरुषार्थमभ्यधुः ॥१२॥ परं शरीरे शरदभ्रगर्भ - सगर्भता निर्भयमभ्युदेति । बलूल-वातूल-विलोलतूल-लीला समुन्मीलति जीवितेऽपि ॥१३॥ ततः पुमर्थे प्रथमे हि देहिना - महो ! विहर्तुं पदवी दवीयसी । दधुर्ममाप्यर्थसमर्थनास्पदे पदं तदस्मिन्नपरे गिरः पुरः ॥१४॥ स्थेमानमानेतुमतः शरीरं कर्माणि निर्मातुमुपक्रमोऽयम् । स्युः स्थानकस्थायिनि तानि चित्ते तदुच्यते स्थानकचक्रवालम् ध्रुवस्य चक्रं धुरि दक्षिणस्य चक्रं ततः कुण्डलिनीमुखस्थम् । स्वयम्भुवो लिङ्गपदस्य चक्रं देवीगुहास्थानमथापि चक्रम् चक्रं वायो रेचकस्योदयार्थं, पश्यन्ती वाक् स्थानचक्रं तदूर्ध्वम् । चक्रं चातः सूर्यरज्यत्कलाया - स्तस्माच्वनं गुप्तवातोदयाय ॥१७॥ ऊर्ध्वं तस्मादादिरक्तस्य चक्रं चक्रं चाऽन्यद् यत्र नादोऽभ्युदेति । आहुश्चक्रं कुण्डलिन्याश्च तस्मा- दादेश्चकं कूर्मचक्रं तदूर्ध्वम् चैतन्यचक्रादथ देहकन्दो वराङ्गचकादपि शक्तिचक्रम् । तस्योपरिष्टादथ मूलकन्द - स्ततोऽपि चन्द्रद्युतिमण्डलं च आधारचक्रं गुद-लिङ्गमध्ये, पर्णैश्च वर्णैश्च युतं चतुर्भिः । पुरीषभाण्डस्य ततोऽपि चक्र चक्र तथाऽस्योपरि सौत्रभाण्डम् साधिष्टानं लिङ्गमूलेऽथ चक्र युक्तं षड्भिस्तच्च वर्णैर्दलैश्च । विज्ञातव्यं तस्य नाभेश्च मध्ये बद्धं सिद्धैरुड्डियाणाख्यपीठम् रोमोत्पत्तिस्थानचक्रं तदूर्ध्वं सार्कीस्तिस्रः स्युर्यतो रोमकोट्य: । अस्थ्युत्पत्तिस्थानचक्रं च तस्मात् षष्टिर्यस्मात् त्रीणि चास्थ्वां शतानि ॥२२।। चक्रं शुक्रप्रभवमथ चोत्पत्तिचक्रं कलाया - श्चकं चाऽन्यत् तदुपरि यतः षड् रसाः प्रोल्लसन्ति । चक्रं वायोः प्रसरति रसो यत्र चान्नोदकानां चक्र चाऽऽस्ते प्रकटपवनः श्वासरूपो यतः स्यात् ॥२३॥ ॥१८॥ ॥१९॥ ॥२०॥ ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39