Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
मार्च २००८
स्वं (स्व) च्छन्दसुन्दरवपुर्मनसा सितांशु-बिम्बं स्पृशन् पिबति नासिकया समीरम् । 'सूर्यं स्पृशनथ विरेचयते तदेत - च्चेतो विघूर्णयति घोलनसंज्ञकर्म || १४३ ||५० आकाशाद् ब्रह्मरन्ध्रं प्रविशति भजते वाममार्गेण पादौ । सव्यान्मार्गात् सुषुम्णापथमथ वितथीभावबन्धं समेत्य । ब्रह्मग्रन्थिप्रबन्धे विलयमविकलं याति चेतस्तदेतत् कर्म प्रावीण्यपुण्यैर्मुनिभिरभिहितं ब्रह्मभेदाभिधानम् ॥१४४॥५१ सावष्टम्भाङ्गयष्टिं स्फुटनिमितमना नादैचक्रे निरुध्य घ्राणं मध्याङ्गलीभ्यां श्रुतिविवरपथस्थापिताङ्गुष्टयुग्म: । निःशेषद्वाररोधे ध्रुवमुपरि शिरोऽभ्यन्तरेऽनाहतं यत् (द्) घण्टारावं विधत्ते तदिदमभिह (हि) तं कर्म घण्टारवाख्यम् ॥१४५॥ ५२ ॥१४
२२
वपुर्वचनचेतस्सु कर्मत्रितयदीपिता । तुल्यमुल्लासयत्येव सोमतां सोमिनी कला
कुर्वन् कदम्बेगोलान्तः स्वान्तमन्तर्मुखेन्द्रियः । बन्धयेत्तियडास्तिस्र - स्तिड़या( यडा ) बन्धकर्म तत् स्थास्त्रकृत्य मनस्तृतीयतियडाचक्रान्तसञ्चारितं पर्यङ्कासनबन्धबन्धुरवपुर्द्वाराणि रुद्ध्वाऽभितः । उत्तानो दृढरज्जुबन्धनविधि नाभिप्रदेशे दिशेद् धूनोत्युद्धततापसम्पदमिदं कर्माऽवधून्याह्वयम् चेतः कृत्वा यदमृतकलचक्रविक्रान्तमन्तः स्वेच्छासीनः सरलितपदः किञ्चिदामीलितास्यः । स्पृष्ट्वा दन्तान्निजरसनया सूत्कृतैरत्ति वातं कर्म प्रोक्तं भुजगजनितं तद् भुजङ्गीति नाम्ना
Jain Education International
॥१४६॥५३
For Private & Personal Use Only
॥ १४७॥ ५४
॥१४८॥। ५५
कर्मद्वयोज्ज्वलज्योति-र्जराविजयकारणम् । अमृतत्वं शरीरेषु दद्यादमृतनी कला
॥ १५०॥ ५७
१. आधारे । २. आज्ञाउपरि । ३. स्वाधिष्ठोपरि । ४. आज्ञाउपरि । ५. आज्ञाउपरि । ६.
आज्ञाउपरि ।
॥ १४९ ॥ ५६
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39