Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
आवेास्पदसम्पदं श्रितवति स्वान्ते वितत्योत्कटं देहं भूनिहितेऽभित: करतले नाभिं समालोडयन् । अन्योन्यं निजनासिकाविवरयोः शुक्रं पिबेदुद्वमेत् कर्मैतत् करसुन्दरीति करयोः सौन्दर्ययोगादभूत् । । ५१ ।। २०४ कर्मत्रयघनाभ्यास - मांसलीभूतदीधितिः । कान्तं देहमसन्देहं धत्ते विद्युत्प्रभा कला
॥ ५२ ॥ २०५ यद्विष्णुवेश्महृदयः कमलासनस्थो-ऽवष्टम्भभाक् (ग) विकटखाट्कृतिना मुखेन । ज्योतिः प्रकाशयति कुञ्चिततूलचक्र - स्तज्ज्योतिषामुदयकर्म समादिशन्ति
॥५३॥२०६ दधति मनसि चक्रे पाकवह्ननिवासं गुदगतनलिकान्तेनोर्ध्वमाकृष्य तोयम् । विसृजति च सयत्नं कोष्टशुद्धि विधाय स्फुटमिदमुदरीति ख्यातिमायाति कर्म
॥५४॥२०७ चेतोमति प्रतिनियम्य वराङ्गचक्रे लिङ्गेन जाठरसमीरमधो विमुञ्चन् । तत् तानयेन्मृदुलपार्णिकरद्वयेन लिङ्गप्रसारणमिदं निगदन्ति कर्म ॥ ५५ ॥ २०८ विशेषो यत्र न प्रोक्त - स्तत्र पद्मासनं मतम् । यथास्थानं नियोज्यं च लिङ्गद्वारेण मानसम्
|| ५६ ॥ २०९ *द्वाचत्वारिंशताऽमूभिः कर्मभिः कृतशर्मभिः । मार्तण्डमण्डलज्योति - ोतते जठरान्तरे
॥ ५७ ॥ २१०
इति श्री समुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे
सूर्यकर्मप्रकरणं षष्टं समाप्तम् ॥ * (द्वादशसु कलासु कर्मसंख्या - ३,३,५,३,३,३,५,३,४,४,३,३ = ४२)
क्षोणी-जला-ऽनल-मरुद् -गगनाभिधानि भूतानि पञ्च रचयन्ति शरीरमेतत् । तुल्यानि तान्युपचयं परिपञ्चयन्ति न्यूनाधिकान्यपचयं पुनरानयन्ति
॥ १ ॥ २११ १. अनाहतोपरि । २. अनाहतोपरि। ३. स्वाधिष्ठानोपरि। ४. आधाराधः । ५. सूर्योलिकर्म.प्रत्यं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39