Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 37
________________ अनुसन्धान ४३ कृत्वा च स्वपरोपकारमसकृन्नम्राखिलाखण्डलः खेलत्कुण्डलिनीकलानियमितस्वस्वान्तकान्तस्थितिः । काष्टी योगकलां गतः परमयोगित्वेन सत्त्वाधिक: स स्यान्निर्वृतिकण्ठपीठविलुठन्मुक्तावलीमध्यगः ॥ ३५ ॥ २७० इत्येवं तत्त्वमार्गाः षडपि जडतया भेदमन्योन्यमेते मुद्राऽनुष्ठानवेषैः स्वरुचिविरचितैः सर्वतो दर्शयन्ति । अन्योन्यं बाधितानां प्रमितिविषयतां कोऽनुमन्येत तेषां तस्माद् विश्वाभ्युपेतं जनितपरपदं योगमेवाऽऽश्रिताः स्मः || ३६ || २७१ इति प्रकरणाष्टकं स्फुरति यस्य कर्णान्तिके गिरामथ च गोचरे चरति यस्य चेतस्विनः । दुरन्तदुरितोदयच्छिदुरमस्य विश्वोत्तरं पदं सपदि सम्पदः पदमदम्भभुज्जृम्भते ॥ ३७ ॥ २७२ अवल्गं वल्गन्तीं जगति परमाणोर्गिरिगुरोः श्रवन्तीं ग्रन्थाध्वश्रितममृतरूपां गिरमिमाम् । विकल्पैरल्पोक्तैर्मलिनयत मा सिद्धवचसां निरीहाणां वाचः किमु विपरियन्ति क्वचिदपि ॥ ३८ ॥ २७३ इति श्री समुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे मुक्तिप्रकरणमष्टमम् ॥ संस्थान भङ्गिर्मवगच्छति देहलीनां सिद्धावलम्बविधिपूरितकर्णयुग्मः । शाखादिकैरवयवैः सममुत्तरङ्गं चेतः स्थिरं धरति योगकलासिकाभिः ॥ ३९ ॥ २७४ द्वाराणि साधयति साधितपीठबन्ध छिद्राणि मुद्रयितुमङ्गचितं विधत्ते । काष्ट कलामनुगतो गुरुपादुकांना मन्तर्निवेशपटुतां परिबिभ्रदित्थम् ।। ४० ।। २७५ १. मधिगच्छति । Jain Education International ३७ - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39