Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 36
________________ ३६ मार्च २००८ वानप्रस्थोऽपि भूत्वा परिशटितकफलाहारपूतान्तरात्मा ब्रह्माद्वैताय चेतो नियमयति यतिस्थानकस्थस्ततोऽपि ॥ २७ ।। २६२ स्फुरच्चिदानन्दमयेन तेजसा ब्रह्मात्मसंज्ञेन जगत्त्रयस्पृशा । अभिन्नमात्मानममुं विचिन्तयेत् ततश्चतुर्थाश्रमसीमनि स्थितः ॥ २८ ॥ २६३ अविद्याविध्वंसस्थिरतरसमाधिव्यतिकर - क्रमोन्मीलद्विद्याकलितपरमब्रह्ममहिमा । प्रपञ्चोऽयं मिथ्येत्यधिकमधिगम्य स्फुटधिया परब्रह्माद्वैते लयमयमुपैति प्रतिकलम् ॥ २९ ॥ २६४ दुर्वर्णं लभते सुवर्णमयतां सिद्धौषधैः शोधितं यद्वत् तद्वदयं समाधिसुधिया निौतदुर्वासनः । जीवात्मा लभते विशुद्धपरमब्रह्मात्मतामित्यहो । योगस्फूर्जितमूर्जितं विजयते मोक्षैकहेतुः परम् ॥ ३० ॥ २६५ वराकश्चार्वाकः किमपि यदि जल्पत्यनुचितं यदृच्छा तत्रास्य त्रिदिवलिपिलोपं विदधतः । परं योगस्थैर्याद् विषयविनिवृत्त्या सुखमयी - मिमां जीवन्मुक्तिं कथमिव निषेद्धं प्रभवति ? ॥ ३१ ॥ २६६ समाधिशुद्धयाऽद्भुतभूतसिद्ध्या सिध्यन्ति विश्वेऽभिमतानि यस्य । 'नास्त्येव चित्तेऽभिमतं तु किञ्चित् त्वामेव हे नास्तिक । भुक्तमाहुः ॥ ३२ ॥ २६७ जिनस्तु नासाग्रनिविष्टदृष्टिः पद्मासनस्थः श्लथगात्रयष्टिः । ऐदंयुगीनेषु जनेषु मन्ये ध्यानं दिशत्यद्भुतमुद्रयैव ॥ ३३ ।। २६८ तथाहि - धर्मध्यानमुपास्य तत्त्वविषये सिद्धान्तसन्धानतः शुक्लध्यानधनञ्जयेन कुरुते कर्मेन्धनं भस्मसात् । कैवल्यं कलयत्यनिन्द्रियतया योगानुभावात्तथा विज्ञानाम्बुनिधौ चकासति यथा भावास्तरङ्गा इव || ३८ ।। २६९ १. कल्पयन्ति । २. नास्त्येव तस्याभिमतं नु किंतु - पा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39