Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 28
________________ २८ मार्च २००८ 'रोमोत्पत्तिविधानधामनि मनः कृत्वा रसज्ञामधोव्यावृत्तोत्कटिकः सुधारसकलामुन्मीलयन्ती मुहुः । ध्यात्वा रोमसु सर्वतो रमयति द्वाराणि रुद्ध्वा दृढं रोमश्यामलताविधायि रमणीकर्मेदमावेदितम् ॥४१॥१८४ 'चेतसि श्रयति कुम्भकचक्रं नाडिकासु निबिडीकृतवातः । कुम्भवत् तरति यज्जलमध्ये तद् वदन्ति किल कुम्भककर्म ॥४२॥ १९५।९ अथ कर्मचतुष्केन जनितोद्दामदीधितिः । मलधातुरसादीनि शोषयेच्छोषणी कला ॥४३॥ १९६ 'मूलकन्दहृदयो गुदरन्ध्र पाणूिंना दृढतरं परिंपीड्य । मूलमूर्ध्वमिह तानयतीत्थं मूलतानमिह कर्म तदुक्तम् ॥ ४४ | १९७ चक्रं हृदि श्रयति कुण्डलिनी मुखस्थ - मुत्तम्भितं निजशरीरमधो वितन्वन् । नासाग्रभागमनुवर्द्धयते रसज्ञा तज्ज्ञापयन्ति रसनापरिवृद्धिकर्म ॥ ४५ ॥ १९८ चेतः कुर्वन्नादिक्तस्य चक्रे ध्यायन् देहं शोणमुद्रासनस्थः । लिम्पेद् गात्रं मूत्रविष्टादिना यत् तन्मातङ्गीकर्म विस्पष्टमिष्टम् ॥ ४६ ॥ १९९ सिद्धज्ञानगुहागृहग्रहमनाः सव्येतरे कूपरे । वामस्योपरिगे दधत् करतलं वामं पुनर्दक्षिणे । दत्त्वा मूर्धनि चालयंस्तमभितः सञ्जातवज्रासनो मेरुं कम्पयतीति कर्म गदितं तन्मेरुकम्पाभिधम् ॥ ४७ ॥ २०० अथानया नयाभ्यस्तैर्दीप्तया कर्मभिस्त्रिभिः । सुवर्णप्रभतामेति सुवर्णप्रभया वपुः ॥ ४८ ॥ २०१ यच्चेतसि क्रीडति कुण्डलिन्यां कुब्जं शरीरं विरचय्य किञ्चित् । रसज्ञया संस्पृशति स्वलिङ्ग तत् कुब्जिकाख्यातिमुपैति कर्म ॥ ४९ ॥ २०२ आलिङ्ग्य लिङ्गमभितो मनसा स्वयंभु-"वक्त्रं निमील्य चिबुकं हृदि संनिवेश्य । सुप्तं श्ववद् वितनुते यदघोरनाद - मुद्दामबुद्धिगदितं तदघोरकर्म ॥ ५० ॥ २०३ १. उड्डियाणोपरि । २. मणिपूरकोपरि । ३. आधार । ४. आधाराधो द्वितीयम् । ५. आधारे। ६. मणिपूरकोपरि। ७. आधाराधः । ८. आधाराधः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39