Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
चैतन्यं यस्य रूपं क्षिति-जल-पवन-ज्योति-राकाशसंज्ञे भूतग्रामे शरीरानुकृतिपरिणते व्यज्यते सर्वतोऽपि । । अप्यैकैकं तु तेभ्यः किमपि यदि वियुज्येत भूतं तदानी - मव्यक्तं चित्स्वरूपं भवति 'मृत' इति प्रत्ययस्याऽऽदिबीजम् ॥ ३ ॥ २३८ भूतेषु पञ्चसु शरीरतया स्थितेषु व्यक्तीभवन्मननचिन्तनतश्चिदात्मा । उन्मीलितेषु जलजन्मसु तन्मयोऽपि गन्धो यथा किमपि भिन्न इवाऽवभाति
. ॥ ४ ।। २३९ यदा चिदात्मा बहिरिन्द्रियार्थ - प्रथानुकूल्येन मनो नियुङ्क्ते । भवेत् तदानीं तदुपाधिदुःख- परम्पराऽमुष्य सुखैषिणोऽपि ॥ ५ ॥ २४० यथा हि वह्निर्बहिरिन्धनेषु लब्धावकाशो भृशमेधतेऽसौ । मन: प्रसर्पद् विषयेष्वमीषु तथैव न श्राम्यति कामचारात् ॥ ६ ॥ २४१ आत्मन्येव मनो नियोज्य विषयद्वाराणि सर्वात्मना। योगेन प्रतिरुध्य शुध्यति पुनर्योगीश्वरः कोऽपि यः । तस्य स्यादमनस्कतापरिचयात् पञ्चेन्द्रियस्याऽप्यहो । स्पष्टानिन्द्रियता तत: स्थिरतरस्तत्त्वावबोधोदयः
।। ७ ।। २४२ ध्यानाभ्यासाद्विषयविमुखाद् भूतसाम्योपयुक्ता -- दात्मारामस्तदनु तनुते शाश्वतं स्वस्य देहम् । तस्याऽऽज्ञातः प्रभवति विष व्याधयो वा न जन्तो - जीवन्मुक्तः स भवति ततः कोऽपि लोकोत्तर श्रीः ॥ ८ ॥ २४३ न किञ्चिदपि चिन्तयेत्तदनु शून्यतत्त्वं परं ततश्च सहजोदयः स्फुरति निर्विकल्पोज्ज्वलः । ततः प्रभृति नो सुखी स खलु नापि दुःखी च वा प्रमेयमवबुध्यते किमपि नापि वाञ्छत्यसौ
।। ९ ।। २४४ पृथिव्याद्याधारः क्षरदमृतरोचिःशुचिसुधा - कलासान्द्रः शाम्यत्तपनकरतापव्यतिकरः । 'मुहुः स्वेच्छाचर्या प्रसवभरसौरभ्यसुभगः किमप्यात्माराम: फलति परमब्रह्मणि लयम्
॥ १० ॥ २४५ १. मरुत् - प्र.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39