Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
प्रकटपवर्नचक्राक्रान्तचेताः शरीरं सरलमचलमुच्चैःकृत्य नासापुटाभ्याम् । रचयति मरुतोऽन्योन्यस्य रोधं ग्रहं च स्फुटमिति धमनीति प्रोच्यते कर्म कामैः ||३१|| १८४
क्ष्मामण्डले वपुरधोमुखमारचय्य सङ्कोच्य कूर्म इव गात्रमशेषतोऽपि । यत् कूर्मचक्रमनुविक्रमयेन्मनः स्वं तत् कूर्मकर्म निपुणाः परिकीर्तयन्ति ||३२||१८५ अस्थ्युत्पत्तिस्थानकस्थायिचेता वेताल श्रीसोदरेणोदरेण ।
भूत्वा यत्नादुत्कटः कर्म कुर्यादुच्छाली स्यात् तद् रसोच्छालनेन ||३३|| १८६।७ अथ कर्मत्रयाभ्यास - मार्जनोपार्जनद्युतिः ।
तन्वती देहविस्फूर्तितं द्योतते द्योतनी कला ||३४|| १८७ स्पृशति मनसि हंसस्थानकं कुञ्चयित्वा चरणयुगलमूर्ध्वकृत्य भून्यस्तमौलिः ।
करतलयुगलेनोत्तम्भितः कुण्डलेन
भ्रमति तदिदमाहुः कुण्डलीकर्म सन्तः ||३५|| १८८ भूताभ्यन्तरवारिचीरकटकं कृत्वा पदाङ्गुष्टकावूर्ध्वाकुञ्चिकरद्वयेन पृथिवीमुद्रमनाः कर्षयन् । प्रद्योताग्नितपद्विधुभ्रमरसं येनोर्ध्वशक्तौ नयेत् पातं शक्तिनिपातनाभिधमतः कर्मेदमाचक्षते ||३६|| १८९
२७
चैतन्यचक्रान्तरसंचरिष्णु स्वान्तं वितन्वन् गरुडासनस्थ: ।
आलोडयेत् पक्षनिभौ करौ यत् प्रचक्षते तद् गरुडीति कर्म ||३७|| १९० ८
अथ कर्मचतुष्केन रससाम्यं वितन्वती ।
विधत्ते देहिनां देहं सुप्रभं सुप्रभा कला ||३८|| १९१
चेतसि पश्यन्तीपदगामि- न्यूर्ध्वशरीरः पृष्टगतेन ।
पाणियुगेनाऽऽक्रामति पार्णी पश्चिमगात्री कर्म तदाहुः ||३९|| १९२ ब्रह्मग्रन्थिग्रन्थिलस्वान्तवृत्तेः क्षामं कामं मध्यदेशं विधाय ।
यद्दीर्घाहिश्चालयेल्लिङ्गदण्डी - मेतद्दण्डीचालनं कर्म तत् स्यात् ||४०|| १९३ १. स्वाधिष्ठानोपरि । २. आधाराधः । ३. स्वाधिष्ठानोपरि । ४. मणिपूरकोपरि । ५. मणिपूरकोपरि । ६. ०ग्निविधुहूतामृतरसं प्र० । ७. आधारोपरि । ८. आधाराधः । ९. स्वाधिष्ठानोपरि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39