Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
कर्मद्वयकृतोपास्तिरमृतास्वादसोदरा । आह्लादसम्पदं धत्ते सेयमालादिनी कला
॥१३३॥४० निर्वातदेशमधिगम्य विधाय लिङ्ग-मूर्ध्वं ततोऽस्य विवरान्तरमीक्षमाणः । पीठे मनो नयति यत् किल कार्मरूपे तत् कामरूपमिति कर्म वितीर्णरूपम्
॥१३४॥४१ उत्तानीकृत्य वामं करतलमुपरि न्यस्य पाणिः शरीरं तस्मित्रारोप्य तस्मादपरमपि शिरः शेखरत्वेन कृत्वा । सार्द्ध देहेन चेतो भ्रमयति मणिपूराख्यचक्रस्य पार्वे प्रोद्यच्छक्त्या समन्तान्नयति च विलयं कर्म तच्छक्तिबन्धम् ॥ १३५॥४२॥११ दिशती सोमतां कर्म-द्वयनाटितपाटवा । दत्ते कारुण्यतारुण्यं कलेयं करुणावती
॥१३६||४३ ब्रॉस्थानाधिष्ठितस्वान्तवृत्ति-लिङ्गस्यान्तर्धातुजं वक्रनालम् । निक्षिप्योर्ध्वं तोयमाकर्षयेद् यत् तत् कर्म स्याद् वक्रनालाभिधानम् ॥१३७॥४४ स्वान्तं सारस्वतान्तर्विदधदैपघनेनोत्कटीभूय जानुद्वन्द्वोज़ कूर्परान्तर्द्वयमुपरचयन् सम्पुटीभूतपाणिः । वक्त्रं सम्मील्य जिह्वां नियमयतितरां राजदन्तान्तराले कमैतत् सम्पुटी स्याद् विधु-रवियुगलीसम्पुटे साम्यहेतुः ॥१३८॥४५॥१२ कर्मद्वयसमुल्लासि-रसपीयूषसारणि: । आप्यायते नृणामङ्ग-मियमाप्यायिनी कला । ॥१३९॥ ४६ पद्मासनीभूय मन: सुषुम्णा-मार्गे वितन्वत्(द्) रसनाग्रशून्या । यल्लम्बिका चुम्बति मन्दमन्दं तल्लम्बिकाकर्म वदन्ति सन्तः ॥१४०॥ ४७ आक्रान्तकेवलिलयस्थितिधाम्नि चित्ते नासान्तवक्त्रविवरैः परमाणुरूपम् । आकृष्य यद् गगनमापिबति प्रकामं प्रोक्तं बुधैस्तदिदमम्बरपानकर्म ॥१४१॥४८॥१३ कर्मत्रयभवद्भूति-परमानन्दसम्पदः । अलंकर्मीणतामेति विकाशाय विकाशिनी
॥१४२।। ४९ १. ०श्वाससोदरा । २. आज्ञाउपरि ४ । ३. पार्वे । ४. नाभौ । ५. आज्ञाउपरि । ६. ललनाचक्रसमीपे । ७. विदधदुपघनेऽप्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39