Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 24
________________ २४ अथ देहमहीरोहद् गुरुतररसगहनदहनरुचितरुचिः । उद्दीप्यते समन्तात् कर्मत्रितयेन दहनकला चेतः कृत्वा शक्तिंचक्रे निलीनं पादाङ्गुष्ठौ पृष्टगाभ्यां कराभ्याम् । गृह्णात्यन्योन्यस्य वज्रासनस्थ - स्तद्विज्ञेयं कर्म वज्रासनाख्यम् स्वान्तं नीत्वा स्थिरतरवर्युर्मण्डले चण्डभानो मन्थित्वा तं दृढतरमरुद्दण्डमन्थानकेन । तस्माज्जातं शिखिकणगणं निक्षिपेन्मूलकंन्दे ख्यातं नाडीगतरसततेर्मारणान्मारणं तत् * सानन्दं देहकन्दौन्तरनिमितमना वज्रबन्धासनस्थो धृत्वाऽन्योन्यं कफोणौ निजभुजयुगलं मौलदेशे निवेश्य । पार्श्वस्थं चाग्रतश्च क्षितितलमलकान्तेन चुम्बन् क्रमेण प्राणादीन् धीरबुद्धिर्दमयति दमनीकर्म तद्वर्णयन्ति अथाऽरुणकलायास्तु कान्त्युत्साहकृतः कृती । प्रपञ्चं पञ्चभिः कुर्यात् कर्मभिर्ज्ञातमर्मभिः "देवीगुहागर्भमनाः शरीर-मधोमुखं दीर्घतरं विधाय । कुर्यात् करद्वन्द्वनिवेशितं तद् ढिंकीति ढिकाकृतिकारि कर्म जन्मस्थाननिवेशितं विरचयन् षण्णां रसानां मनः कुर्वन्नुत्कटिकासनं गुदगतां मध्याङ्गुलीं लालयन् । नैर्मल्यं विदधाति कोष्टकुहरक्रोडस्य हृत्वा मलं योगीन्द्रास्तदुदाहरन्ति कुहरीकर्मोरुधर्मोद्धरम् मनसि वसति चक्रे सूर्यरज्यतकलयाः कलितविवररोधः सज्जवज्रासनाङ्गः । ज्वलदनिलविलोलां शक्तिमुच्छालयेद् यत् तदिति भवति शक्त्युच्छालनं नाम कर्म . Jain Education International मार्च २००८ For Private & Personal Use Only ||६|| १५९ ॥७॥ १६० ||८|| १६१|| ॥९॥ १६२ ||१०|| १६३ ॥११॥ १६४ ||१३|| १६६ १. आधाराधः । २. आधाराधः । ३. आधारे । ४. आनन्दं । ५. आधाराध ( : ) । ६. पद्मबन्धा० । ७. आधाराधः । ८ स्वाधिष्टानोपरि । ९. आधाराधः । ॥१२॥। १६५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39