Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४३
'यत्रोत्तरध्रुवमना निजनासिकान्त-दत्तेक्षण: क्षितितलास्थितहस्तयुग्मः । प्राणेन वायस इवोल्लिखति क्षमायां तद् वायसीति विगदं निगदन्ति कर्म ॥१५१।।५८ आनीते भ्रमरस्य चक्रमभितः स्वान्ते गुडादीनदन् निर्वाते करभासनः प्रगुणयन्नूर्वोर्ललाटस्थितिम् । ध्यानेन भ्रमरीविभास्वरवपुर्जायेत शीतद्युतिः कमैतद् भ्रमरीतिसंज्ञमतुलप्रज्ञैः परिज्ञापितम्
॥१५॥५९ १६ दीपितः कर्मणीमेवं द्विचत्वारिंशताऽनया । सद्यो वपुषि पीयूषं निषिञ्चति सितद्युतिः ॥१५३।। ६० * (टि. षोडशसु कलासु कर्मसंख्या - ३, ३, ३, २, ३, ३, ३, ३, २, ३, २, २, २, ३, ३, २ = ४२) इति श्रीसमुच्चयविरचिते आनन्दसमुच्चयाभिधाने श्रीयोगशास्त्रे
चन्द्र(कर्म) प्रकरणं पञ्चमं समाप्तम् ।
इहांशुमान् 'स्वान्तनभोगणान्त-विद्योतते द्वादशभिः कलाभिः । एकैकशश्चात्र कलाविलास-मुल्लासयेत् कर्मपरम्परेयम्
॥१॥ १५४ पवनाख्यां कलामत्र यथार्थप्रथिताभिधाम् । अमूनि त्रीणि कर्माणि दीपयन्ति समन्ततः
||२|| १५५ मनसि चरति गुप्तवातचक्रे पवननिरोधविधानबद्धबुद्धिः । जरयति “पवनं रसं च यस्मा-दिदमिति जारणकर्म कीर्तयन्ति ।१३।। १५६ यद् भूत्वोत्कटकवपुः स्थिरो विधाय स्वस्वान्तं ननु विचरिष्णु विष्णुभाण्डे । आकुञ्चत्यथ च विमुञ्चते च पायुं गन्धारी गुरुमलगन्धरोधनात्तत् ॥४॥ १५७ घनरसाऽन्नरसप्रसरास्पदे गतमनाः पवनः किल पिङ्गलाम् । नयति बाढमिडां परिपीडयन् शिवनिदानतया शिवकर्म तत् ॥५॥ १५८ ११
१. सोमचक्रोपरि । २. देह । ३. घात । ४. आधाराधः । ५. पतनं (?) । ६. विष्ट । ७. आधारे । ८. स्वाधिष्ठानोपरि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39