Book Title: Anandsamucchayo Nam Yogshastram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ १८ वक्त्र- घ्राण-प्राणमाकृष्य तेन स्थानं भित्त्वा ब्रह्म - शौरीश्वराणाम् । स्थूलाः सूक्ष्मा नाडिकाः पूरयेद् यद् विज्ञातव्यं कर्म तत् पूरकारव्यम् ॥ १०५ ॥ १२ अन्तर्जलं स्थिततनुर्नयनद्वयेन संयोज्य सम्पुटितमंहिसरोजयुग्मम् । कुर्वीत 'पूर्णगिरिपीठगतं मनो यत् तत् कर्म पूर्णगिरिसंज्ञमुदाहरन्ति ॥१०६॥१३॥१३ कर्मद्वयकृतोल्लास - चिराभ्यासवशंवदा । कामं कामोदयच्छेदौ कुरुते कामिनी कला ||१०७ ||१४ लिङ्गद्वारालम्बिकां चुम्बमाने चित्ते गुल्फस्योपरि न्यस्य शिश्नम् । यत्सङ्कोचं मन्दमन्दं नयेत् तत् सङ्कोचीति स्यादिदं कर्म तस्मात् || १०८ ||१५ आकण्ठं नीरपूरान्तररचिततनुः पद्मबन्धासनस्थश्छायायामहि नक्तं शशधरकिरणक्षालितं क्षोणिपीठे । स्वान्ते विश्रान्तिमञ्चत्यचलवनभुवि क्षीरखण्डादि भुङ्क्ते कर्मैतद् बिन्दुमालिन्यभिहतमुदयद् बीजबिन्दुप्रपातम् आधिव्याधिपरित्रस्त - प्राणित्राणाय जाग्रती । आश्वासं जनयेत् कर्म - त्रयादाश्वासिनी कला पवनं मानसे तच्च सुषुम्णोधारमण्डले । सम्बन्ध्य (ध्य ? ) बन्धयेत् श्वासं श्वासबन्धनकर्म तत् नवविवरविरोधस्वास्थ्यमास्थाय काये मनसि रजनिजानेबिम्बमालम्बमाने । सितमपि किल रेतः श्वेतमाबन्धयेद् यत् तदुदितमिह कर्म श्वेतबन्धाभिधानम् आकाशान्तः प्रविशति गुरुद्वारतो मानसाख्यं चक्रं भित्त्वा मनसि दशमद्वारभेदं च कृत्वा । मन्दं मन्दं रचयतितरां कुञ्चनं पायुवायोराकुञ्चीति स्फुरति तदिदं कर्म शर्मैकहेतुः चिराभ्यासवशीभूत कर्मत्रितयवर्मिता । चित्तमानन्दसन्दोहे मोहयेन्मोहिनी कला मार्च २००८ Jain Education International For Private & Personal Use Only ॥१०९॥१६ ॥११०॥१७ ॥ १११ ॥१८ ॥ ११२ ॥ १९ ११४||२१ १. आज्ञाउपरि ब्रह्मस्थानम् । अनाहतोपरि विष्णुस्थानम् । २. ललनाचक्रोपरि सप्तमम् । ३. बद्धपद्मासनस्थः । ४. सोमचकोपरि प्रथमम् । ५. आज्ञाचकोपरि नवमम् । ॥ ११३ ॥ २० www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39