Book Title: Anandsamucchayo Nam Yogshastram Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ अनुसन्धान ४३ ॥३५॥ ॥३६॥ द्वारे वसन्ति सततं वपुषः सुषुम्णा - धारा --- मतश्च कदम्बगोलः । नक्षत्रमण्डलमतः क्रमतो दलानां यस्मिन् परिस्फुरति विंशतिरष्टयुक्ता ॥३३|| अतो महापद्मवनं विदुर्बुधाः स्याद् ब्रह्मरन्धं तदन्तरं पुनः । अथाऽपरं ब्रह्मपदं प्रचक्षते शुक्रस्य चकं च भवेदनन्तरम् ॥३४॥ मूलकुण्डलिनी स्थान - चक्रं सप्तदशच्छदम् । एतस्मात् परतः पीठं कामरूपं प्रचक्षते सहस्रपत्रान्धितमूर्ध्वशक्ति - चक्रं तदूर्ध्वं ध्वनिचक्रमस्ति । स्थानं ततो विस्मरणं विसर्ग - स्थानं ततः क्रोधकृशानुचक्रम् चकं च स्मरणस्य केवलिलयस्थानं तथाऽनन्तरं विज्ञातव्यमथोर्ध्वमीश्वरलयस्थानं ततोऽपि क्रमात् । स्थानं रुद्रलयं ततोऽपि च भवेद् विष्णोर्लयस्थानकं स्थानं ब्रह्मलयस्य तस्य च पुरः शक्तेर्लयस्थानकम् ॥३७॥ तद् द्वितीयतियडाह्वयचक्रं ब्रह्मकर्णविवरैक्यगतं यत् । षड्दलं तदनु मानसचक्र नादचक्रममुत: परमाहुः सलिलमयमुदस्तादित्यपादाब्जजाग्रद्धुतिमहिमहिमांशोश्चक्रमस्ति क्रमेण । इह सकलकलासु स्फूर्तिवासु वर्णानभिदधुरभिरूपाः षोडशाध्यायरूपान् ॥३९॥ स्थानं तस्मादचलवनमित्यस्ति तस्योपरिष्टाच्चक्रं चैवाऽमृतमयमिडा-पिङ्गला-शङ्खिनीनाम् । चके चक्रं प्रथमतियडेत्युन्मनीचक्रमस्माच्चक्रं चाऽन्यत् तदुपरि भवेदुत्तरस्य ध्रुवस्य विश्रामाय च चक्रमस्ति मरुतो लिङ्गं ततः पश्चिम चक्रे च भ्रमरस्य तिष्ठति महाशून्यं ततोऽपि क्रमात् । आस्ते स्थानमपि त्रिवर्णमपरस्थानं तथाऽनन्तरं स्थानं मानसवायुपुष्टिलयमित्येतानि सर्वाण्यपि १. वायुपृष्ट० । ॥३८॥ ॥४०॥ ॥४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39