Book Title: Anandsamucchayo Nam Yogshastram Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ मार्च २००८ ॥२४॥ ॥२६॥ ब्रह्मग्रन्थि डिकानां सहस्र - सप्तत्या मूलकन्दीकृतोऽस्ति । अन्यत्र्यास्ते चकमुज्जृम्भतेऽसौ यस्मिन् वह्निः पाकहेवाकसिद्धः ॥२४|| एकैकशो दशविभेदविभक्तमस्ति प्राणादिकं पवनपञ्चकमेतदूर्ध्वम् । नाभौ ततोऽपि मणिपूरकचक्रमस्ति पत्राणि यत्र दश सन्ति तथाऽक्षराणि ।।२५।। एतस्माद् गुणतत्त्वबुद्धिविषयस्थानं तथाऽनन्तरं सिद्धज्ञानगुहापदस्य तु भवेच्चकं ततश्च क्रमात् । चकं मध्यमवाक्पदस्य पृथिवीमुद्रास्पदं चक्रमप्यास्ते कुम्भकवायुचक्रमपरं हंसस्य चक्रं ततः अकारचक्रं हृदि कण्ठकस्य चक्रं ततो द्वादशवर्णपर्णम् । अनाहतं वक्षसि लक्षणीयं तदूर्ध्वमावेशपदं वदन्ति ॥२७॥ ध्यानस्थानं स्थानमानन्दरूपं तस्मादूर्वं विष्णुदेवास्पदं च । कण्ठस्थाने चाथ चक्रं विशुद्धः पत्राणि स्युः षोडशाऽत्र' स्वराश्च ॥२८॥ चक्र चाऽस्मादधिवसति वाग् वैखरी शब्दशक्ते - मूलस्थानं तदनु ललनानामकं लम्बिकायाम् । चक्रं तच्च द्वयधिकदशभिः शासितं पर्णवणे - रास्ते चाऽन्यत् तदनु पुरुषस्थानतो बुद्धितत्त्वम् ॥२९॥ मुद्रास्पदं च पवनस्य ततोऽम्बुमुद्रा देव्यादिमण्डलमतः क्रमतः समस्ति । सारस्वतस्तदनु तिष्ठति वाक्यकन्द-स्तस्माच्च पूर्णगिरिपीठमिति प्रतीतम् ॥३०॥ नासाभ्यन्तरतस्तृतीयतियडाचक्रं प्रकाशास्पदा - दाज्ञाचक्रमिदं त्रिवर्णकदलं भूमध्यमालम्बते । स्थानं शब्दलयं कपालकुहरस्याऽन्तः प्रतिष्ठां गतं मूर्द्धन्यूर्ध्वमत: कदम्बकगुहास्थानं समुज्जृम्भते ॥३१॥ तस्मात् पूरकवायुचक्रममुतः पीठं च जालन्धरं विश्रामाय समस्ति चक्रमपरं घण्णां रसानां तथा । तस्याऽनन्तरमस्ति चाऽमृतकलाचक्र ततोऽपि क्रमाद् बिन्दुस्थानमथास्ति पञ्चविषयासक्तेन्द्रियाणां पदम् ॥३२॥ १. षोडशाऽस्य ॥ २. घण्टिकायाम् ॥ ३. नासास्या० ॥ ४. प्रकाश्या० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39