Book Title: Adhyatmasara
Author(s): Yashovijay, Gambhirvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________ यातायातं यातं च तदायातं चेति तथा गमनागमनं कुर्वत् / अत एव सातिचारमपि सदोषमपि / चेतो मनः। श्रन्यासदशायां प्रथमतो योगशिक्षणावस्थायां / गजांकुशन्यायतो गजो हस्ती यथाऽङ्कशेन सृणिप्रहारेण सुमार्गगामी लखितगतिश्च क्रियते स एव न्याय उदाहरणं ततः।श्रकुष्टमदूषितं / शिक्षायोगान्मार्गानिमुखपरिणामिक्रियमाणत्वादित्यर्थः॥१॥ ज्ञान विचारानिमुखं यथा यथा जवति किमपि सानन्दम्।श्रथैः प्रलोच्य बाबैरनुगृह्णीयात्तथा चेतः॥१३॥ ज्ञानेति-यथा यथा येन येन प्रकारेण / चेतो मनः / सानन्दं धर्मप्रमोदयुक्तं सुप्रसन्न / किमपि किश्चिदपि ।ज्ञान विचारानिमुखं ज्ञानं च विचारश्च तयोरनिमुखं संमुखं / नवति जायते / तथा तथा तेन तेन प्रकारेण / बाराित्मनो निन्नवक्ष्यमाणशुजालंबननूतैः / श्रथैः पदार्थैः / प्रलोच्य तत्र प्रेमोसादनेन व्याक्षिप्य / गृहीयाघशं कुर्यादित्यर्थः // 13 // पूर्वसूचितपदार्थानाहअनिरूपजिनप्रतिमा विशिष्टपदवर्णवाक्यरचनां च / पुरुषविशेषादिकमप्यत एवालंबनं ब्रुवते // 1 // अनिरूपेति-श्रत एव आनन्दजनकत्वाखेतुतः। श्रनिरूपजिनप्रतिमामनिरूपा प्रशस्तलक्षणोपेता मनोहराकृतिर्जिनप्रतिमा तीर्थकृढुिंबं तां / च पुनः। विशिष्टपदवर्णवाक्यरचनां विशिष्टा शुजसूनिका मांगल्यखालित्यतावती पदानां / श्रागमोक्तानां, श्रात्मा चेतनो जीव इत्यादीनां वर्णानां गंजीरार्थवाचकाक्षराणां प्रणवादीनां वाक्यानां पदसमुदायरूपाणां जयति जगजुरुर्जिन इत्यादीनां च या रचना वस्तुस्वरूपाविर्तावकजिनगुणोक्षापवती सुकविकृतिस्तां / पुरुषविशेषादिक गणधरादिसुसाध्वादिकं / श्रपिशब्दाष्ठास्त्रपाठादिकं / पाखंबनं चेतोनिग्रहार्थ शुजाश्रयं / ब्रुवते प्रचदत इत्यर्थः // 14 //

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516