Book Title: Adarsha Jivan Vijay Vallabhsuriji
Author(s): Krushnalal Varma
Publisher: Granthbhandar Mumbai

View full book text
Previous | Next

Page 777
________________ ( १९८ ) गुरुसमधिगताऽर्हत्सिद्धसिद्धान्तमर्मा, सुमतिमदुपलब्धव्याकृतिन्यायतत्त्वः । अति बहुपटिमानं प्राप्तवान् काव्यशास्त्रे, सुरगुरुरिव वाचोयुक्तिमाधत्त युक्ताम् ॥ एनमेवाशयमनुसृत्य स्थाने वर्णितं प्राधान्येन जाग्रत्कान्यतया मत इति । तदनन्तरमनन्तरोक्तामविदृप्यवैदुप्यशक्तिं चावगाहमान एक । महाशयः सभासु भासुरमतिः स्वमतं सममण्डयत् । दुर्वादिगिरिपक्षांश्च वज्रवत् समखण्डयत् ॥ एतदेवाभिप्रेत्य सुनिपुणं भणितं दुर्वादिशैलेऽशनीभावं बिभ्रदिति । अधुना तु महामान्यम्उज्जाग्रज्जिनधर्मशासनहितार्थप्रार्थ्यमानोत्तम न्यायाम्भोनिधि—–सूरिवर्य–विजयानन्दाप्तपूर्वाज्ञया । प्राप्तप्रागधिकारमेनमधुना पञ्चापजः प्रागिव, संमत्याऽऽर्हतसंघ आर्यविदुषां सूरेः पदं प्रापयत् ॥ एतदभिप्रत्यैव सूर्यासनं लब्धवानिति युक्तमुक्तम् । 'श्रावकमण्डली अहो ! परमाह्लादोदाधिनिमग्नमिव मदीयं मानसं पुलकितानी - वाङ्गानि, आस्वाद्यरसाप्लुतमिव प्रसादसदनं वदनं, तृप्ते इव कौतुक - श्रवणप्रवणे श्रवणे । परं कृपया विशदयतु विषययुगलकम्; पूर्वं तावत् ' प्रागिव ' इति । कदा कं कुत्र पञ्चाप- संत्रः सूरिपदं प्रापितः ? अथ च आर्यविदुषामिति तन्नामस्फुटीकरणेन पुनातु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828